श्रीमहादेवाष्टकम् PDF संस्कृत
Download PDF of Mahadevashtakam2 Sanskrit
Shiva ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीमहादेवाष्टकम् संस्कृत Lyrics
|| श्रीमहादेवाष्टकम् ||
मोक्षलक्ष्मीगृहद्वारकवाटोद्धाटनध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ १॥
वैवस्वतमहाराजमौलिसङ्कुट्टनध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ २॥
कैलासनगरद्वारमहाघण्टारवध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ३॥
महापातकमत्तेभत्रासकण्ठीरवध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ४॥
महेश्वरमहोक्षस्य घण्टाघणघणध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ५॥
मुक्त्यङ्गनाकरस्पर्शविवाहपटहध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ६॥
मत्सेवनासमायातजयश्रीदुन्दुभिध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ७॥
पापाटवीप्रविष्टाग्निज्वालाचटचटध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ८॥
महादेवस्य वाग्वल्ली चतुरक्षरपल्लवा ।
भक्तिसिद्धा भवत्येषा चतुर्वर्गफलप्रदा ॥ ९॥
॥ इति श्रीमहादेवाष्टकं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीमहादेवाष्टकम्
READ
श्रीमहादेवाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
