महादेवस्तुतिः PDF संस्कृत
Download PDF of Mahadevastutih Sanskrit
Shiva ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
महादेवस्तुतिः संस्कृत Lyrics
|| महादेवस्तुतिः ||
जय शङ्कर शान्त शशाङ्करुचे
रुचिरार्थद सर्वद सर्वशुचे ।
शुचिदत्तगृहीतमहोपहृते
हृतभक्तजनोद्धततापतते ॥ १॥
ततसर्वहृदम्बर वरद नते
नतवृजिनमहावनदाहकृते ।
कृतविविधचरित्रतनो सुतनो
तनुविशिखविशोषणधैर्यनिधे ॥ २॥
निधनादिविवर्जित कृतनतिकृत्
कृतिविहितमनोरथपन्नगभृत् ।
नगभर्तृसुतार्पितवामवपुः
स्ववपुः परिपूरितसर्वजगत् ॥ ३॥
त्रिजगन्मयरूप विरूप सुदृग्
दृगुदञ्चनकुञ्चनकृतहुतभुक् ।
भव भूतपते प्रमथैकपते
पतितेष्वपि दत्तकरप्रसृते ॥ ४॥
प्रसृताखिलभूतलसंवरण
प्रणवध्वनिसौधसुधांशुधर ।
धरराजकुमारिकया परया
परितः परितुष्ट नतोऽस्मि शिव ॥ ५॥
शिव देव गिरीश महेश विभो
विभवप्रद गिरिश शिवेश मृड ।
मृडयोडुपतिध्र जगत्त्रितयं
कृतयन्त्रणभक्तिविघातकृताम् ॥ ६॥
न कृतान्तत एष विभेमि हर
प्रहराशु महाघममोघमते ।
न मतान्तरमन्यदवैमि शिवं
शिवपादनतेः प्रणतोऽस्मि ततः ॥ ७॥
विततेऽत्र जगत्यखिलेऽघहरं
हरतोषणमेव परं गुणवत् ।
गुणहीनमहीनमहावलयं
प्रलयान्तकमीश नतोऽस्मि ततः ॥ ८॥
इति स्तुत्वा महादेवं विररामाङ्गिरः सुतः ।
व्यतरच्च महेशानः स्तुत्या तुष्टो वरान्बहून् ॥ ९॥
बृहता तपसानेन बृहतां पतिरेध्यहो ।
नाम्ना बृहस्पतिरिति ग्रहेष्वर्च्यो भव द्विज ॥ १०॥
अस्य स्तोत्रस्य पठनादपि वागुदियाच्च यम् ।
तस्य स्यात्संस्कृता वाणी त्रिभिर्वर्षैस्त्रिकालतः ॥ ११॥
अस्य स्तोत्रस्य पठनान्नियतं मम सन्निधौ ।
न दुर्वृत्तौ प्रवृत्तिः स्यादविवेकवतां नृणाम् ॥ १२॥
अदः स्तोत्रं पठञ्जन्तुर्जातु पीडां ग्रहोद्भवाम् ।
न प्राप्स्यति ततो जप्यमिदं स्तोत्रं ममाग्रतः ॥ १३॥
नित्यं प्रातः समुत्थाय यः पठिष्यति मानवः ।
इमां स्तुतिं हरिष्येऽहं तस्य बाधाः सुदारुणाः ॥ १४॥
त्वत्प्रतिष्ठितलिङ्गस्य पूजां कृत्वा प्रयत्नतः ।
इमां स्तुतिमधीयानो मनोवाञ्छामवाप्स्यति ॥ १५॥
इति श्रीमहादेवस्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowमहादेवस्तुतिः
READ
महादेवस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
