लोभासुरकृता महादेवस्तुतिः PDF संस्कृत
Download PDF of Mahadevastutihlobhasurakrrita Sanskrit
Shiva ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
लोभासुरकृता महादेवस्तुतिः संस्कृत Lyrics
|| लोभासुरकृता महादेवस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
लोभासुर उवाच ।
नमस्ते विश्वनाथाय सर्वान्तर्यामिणे नमः ।
शङ्कराय शिवायैव ह्यनन्तगुणराशये ॥ ४०॥
त्रिनेत्राय महादेव शक्तियुक्ताय शम्भवे ।
निर्गुणाय गुणानां ते चालकाय नमो नमः ॥ ४१॥
अमेयशक्तये तुभ्यं गिरीशाय वृषध्वज ।
स्रष्ट्रे पात्रे च संहर्त्रे त्रिधारूपाय वै नमः ॥ ४२॥
अकर्तुमन्यथा कर्तुं कर्तुं शक्ताय ते नमः ।
सदा मोहविहीनाय मृडाय सततं नमः ॥ ४३॥
स्वाधीनाय परेशाय सहजे खेलकारिणे ।
शूलहस्ताय देवानां पतये ते नमो नमः ॥ ४४॥
कैलासवासिने तुभ्यं भस्मलेपकराय वै ।
दिगम्बराय सर्वेभ्यः सर्वदाय नमो नमः ॥ ४५॥
एवं स्तुत्वा महेशानं तूष्णीं भावेन संस्थितः ।
लोभासुरः प्रसन्नात्मा साश्रुकः स कृताञ्जलिः ॥ ४६॥
तमुवाच महादेवो वरं वृणु हृदीप्सितम् ।
दास्यामि तपसा स्तोत्रेण तुष्टो दानवोत्तम ॥ ४७॥
(फलश्रुतिः)
त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
भविष्यति न सन्देहो भुक्तिमुक्तिप्रदायकम् ॥ ४८॥
यः पठिष्यति दैत्येन्द्र श्रावयिष्यति वा नरः ।
श्रोष्यते स लभेत् सद्यो वाञ्छितं मत्प्रियः सदा ॥ ४९॥
इति लोभासुरकृता महादेवस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowलोभासुरकृता महादेवस्तुतिः
READ
लोभासुरकृता महादेवस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
