ऋषिभिः कृता महादेवस्तुतिः PDF संस्कृत
Download PDF of Mahadevastutihrrishibhihkrrita Sanskrit
Shiva ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
ऋषिभिः कृता महादेवस्तुतिः संस्कृत Lyrics
|| ऋषिभिः कृता महादेवस्तुतिः ||
वन्दे सुराराधितमिन्दुमौलिं वन्दे भवानीरमणं महेशम् ।
वन्दे महामेरुशरासनोरुकोटिप्रभाकूटविघट्टिताङ्गम् ॥ १॥
वन्दे महानन्दपदप्रदानं विहारलोलं खलकालकालम् ।
वन्दे पुरश्रीपरिहारहेतुं वन्दे स्मरारातिमुमासहायम् ॥ २॥
वन्दे तमर्धेन्दुकलावतंसं ताराविहाराकरसंवृतांसम् ।
वन्दे मनोमानसराजहंसं वन्दे भवानीस्मितमन्दहासम् ॥ ३॥
वन्दे मुकुन्दाद्यमरासुराणां वन्द्यं च वेदान्तगणैः स्तुतं च ।
वन्दे प्रपन्नार्तिहरं परं तं वन्दे मुहुः शङ्करमेव वन्दे ॥ ४॥
वन्दे जगत्सर्गविधानहेतुं वन्दे जगत्पालनहेतुमीढ्यम् ।
वन्दे जगत्संहरणक्षमं त्वां वन्दे भवानीमुखपद्मभानुम् ॥ ५॥
वन्दे मुहुः संहृतकालकूटं वन्दे स्मरारिं मदनान्तकं तम् ।
वन्दे विभूतिस्फुरदुन्नताङ्गं रुद्राक्षमालाकुलभूषणं तम् ॥ ६॥
वन्दे तमेवान्धकदुर्मदान्ध महान्धकारप्रलयानलं तम् ।
वन्दे मुदा तं गिरिराजकन्याकुचाङ्ककाश्मीररजःकणाङ्कम् ॥ ७॥
वन्दे मुहुः भालविलोचनं तं वन्दे त्रिशूलस्फुरदग्रहस्तम् ।
वन्दे पुनस्त्वां मृगशावहस्तं वन्दे शिवालङ्कृतवामभागम् ॥ ८॥
वन्दे चतुर्वर्गफलप्रदं तं वन्दे वृषाधीश्वर केतनं तम् ।
वन्दे जटाजूटतटाभिघातवित्रस्तनक्षत्रगणावृतं तम् ॥ ९॥
॥ इति शिवरहस्यान्तर्गते ऋषिभिः कृता महादेवस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowऋषिभिः कृता महादेवस्तुतिः
READ
ऋषिभिः कृता महादेवस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
