महादेवस्तुतिः वरप्राप्त्यर्थं पार्वतिकृता PDF संस्कृत
Download PDF of Mahadevastutihvarapraptyarthamparvatikrrita Sanskrit
Shiva ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
महादेवस्तुतिः वरप्राप्त्यर्थं पार्वतिकृता संस्कृत Lyrics
|| महादेवस्तुतिः वरप्राप्त्यर्थं पार्वतिकृता ||
देव्युवाच
बालेति मत्वा भव भूतनाथ व्यामोह(व्यामुह्य)से किं त्वमनिन्द्यवर्य ।
स्वतन्त्रवृत्तिर्यदि वा तवैषा तदा दहेर्मामपि चाग्रसंस्थाम् ॥ ५॥
यदि विश्वेश्वरो देवो ब्रह्मादीनां हरः शिवः ।
प्रतारणे प्रवृत्तश्चेत्को निवारयितुं क्षमः ॥ ६॥
नाहं प्रतार्या भगवंस्त्वामहं शरणं गता ।
गतिर्नान्याऽस्ति मे देव तस्मान्मां त्रातुमर्हसि ॥ ७॥
त्वमेव चक्षुर्जगतस्त्वमेव वचसां पतिः ।
त्वमेव धाता जगतो विधाता विश्वतोमुखः ॥ ८॥
नमाम्यहं देववरं पुराणमुपेन्द्रवेधोऽमरराजजुष्टम् ।
शशाङ्कसूर्याग्निमयं त्रिनेत्रं ध्यानाधिगम्यं जगतः प्रकाशम् ॥ ९॥
त्वां वाङ्मयाधारमनन्तवीर्यं ज्ञानार्णवं चैव गुणार्णवं च ।
परापरं धामनिधिं सुसूक्ष्ममनादिमध्यान्तविहीनरूपम् ॥ १०॥
हिरण्यगर्भं जगतः प्रसूतिं नमामि देवं हरिणाङ्कचिह्नम् ।
पिनाकपाशाङ्कुशशूलहस्तं कपर्दिनं मेघसहस्रघोषम् ॥ ११॥
तमालकण्ठं स्फटिकावदातं नमामि शम्भुं भुवनैकसिंहम् ।
दशार्धवक्त्रं सुरसिन्धुशीर्षं शशाङ्कचिह्नं नरसिंहदारुणम् ॥ १२॥
त्वां नमामि शरभरूपधरोरगेन्द्रराजहारं चलद्वलयभूषणं हरम् ।
वरविबुधमुकुटार्चिताङ्घ्रिं नमामि हि हरिचर्मवसनं त्वाम् ॥ १३॥
यदक्षरं निर्गुणमप्रमेयं यज्ज्योतिरेकं प्रवदन्ति सन्तः ।
दूरङ्गमं देवमनन्तमूर्तिं नमामि सूक्ष्मं परमं पवित्रम् ॥ १४॥
नमामि रुद्रं प्रमथाधिनाथं धर्मासनस्थं प्रकृतिद्वयस्थम् ।
तेजोनिधिं बालशशाङ्कमौलिं कालेन्धनं वह्निरवीन्दुनेत्रम् ॥ १५॥
इति सौरपुराणे चतुष्पञ्चाशोऽध्यायान्तर्गतं वरप्राप्त्यर्थं
पार्वतिकृता महादेवस्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowमहादेवस्तुतिः वरप्राप्त्यर्थं पार्वतिकृता
READ
महादेवस्तुतिः वरप्राप्त्यर्थं पार्वतिकृता
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
