महालिंगाष्टकम् PDF संस्कृत
Download PDF of Mahalingashtakam Sanskrit
Shiva ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
महालिंगाष्टकम् संस्कृत Lyrics
|| महालिङ्गाष्टकम् ||
महालिङ्गं महादेवं महेश्वरमुमापतिम् ।
साम्बं मध्यार्जुनेशं तं गुरुं देवं नतोऽस्म्यहम् ॥ १॥
ज्योतिरूपं कृष्णरूपं सर्वरूपं जगत्पतिम् ।
इष्टार्थसिद्धिदं शम्भुं महालिङ्गं नतोऽस्म्यहम् ॥ २॥
काशिक्षेत्रसमानञ्च कैलासादधिकं प्रियम् ।
शाश्वतस्थिरवासं च महालिङ्गं नतोऽस्म्यहम् ॥ ३॥
बृहद्कुचाम्बासहितं मूकाम्बा तपसाफलम् ।
गणाध्यक्षं षण्मुखञ्च महालिङ्गं नतोऽस्म्यहम् ॥ ४॥
प्रदक्षिणादश्वमेधं नमनात्वाजपेयकम् ।
स्तोत्रात्श्रीराजसूयाख्यं स्मराणत्मुक्तिदायकम् ॥ ५॥
क्षेत्रवासश्च निर्मुक्त तीर्थस्नानैः सदा शुचि ।
पञ्चाक्षरजपाश्चैव महालिङ्गं प्रतुष्यति ॥ ६॥
यः प्रदोष महालिङ्गं रुद्रजापात्प्रदोषयेत् ।
स सर्वरोगनिर्मुक्त शतायुस्सुखमेततु ॥ ७॥
दर्शनात्सर्वपापघ्नं नमनात्वाञ्छितप्रदम् ।
स्मरणान्सर्वसायुज्यं महालिङ्गं नतोऽस्म्यहम् ॥ ८॥
महालिङ्गाष्टकं स्तोत्रं कृतं कष्टौघनाशनम् ।
महालिङ्गप्रेरितेन गोपालेन कृतं शुभम् ॥ ९॥
इति महालिङ्गाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowमहालिंगाष्टकम्
READ
महालिंगाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
