महामृत्युञ्जयाष्टकम् PDF संस्कृत
Download PDF of Mahamrrityunjayashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
महामृत्युञ्जयाष्टकम् संस्कृत Lyrics
|| महामृत्युञ्जयाष्टकम् ||
ॐ मृत्युञ्जय ! परेशान जगदामयनाशन ! ।
तव ध्यानेन देवेश ! मृत्युं प्राप्तोऽपि जीवति ॥ १॥
पञ्चास्यदोर्द्दण्डदशाङ्घ्रिनेमदिनेशभालेन्दुयुतं गणेशैः ।
वामाङ्गसंस्थागिरिजासमेतं वन्दे महामृत्युविनाशरूपम् ॥ २॥
देवं मृत्युविनाशनं भयहरं साम्राज्यमुक्तिप्रदं
नानाभूतगणान्वितं दिवि पदैर्देवैः सदा सेवितम् ।
अज्ञानान्धकनाशनं शुभकरं विद्यासुसौख्यप्रदं
सर्वं सर्वपतिं महेश्वरहरं मृत्युञ्जयं भावये ॥ ३॥
वन्दे ईशानदेवाय नमस्तस्मै पिनाकिने ।
आदिमध्यान्तरूपाय मृत्युनाशं करोतु मे ॥ ४॥
नमस्तस्मै भगवते कैलासाचलवासिने ।
नमो ब्रह्मेन्द्ररूपाय मृत्युञ्जय प्रसीद मे ॥ ५॥
नमो विष्ण्वर्करूपाय नमो ज्ञानस्वरूपिणे ।
मृत्युं नाशयतामाशु मृत्युञ्जय प्रसीद मे ॥ ६॥
त्र्यम्बकाय नमस्तुभ्यं पञ्चास्याय नमो नमः ।
दोर्द्दण्डचापाय नमो मम मृत्युं विनाशय ॥ ७॥
नमोऽर्धेन्दुस्वरूपाय नमो दिग्वसनाय च ।
नमो भक्तार्तिहन्त्रे च मम मृत्युं विनाशय ॥ ८॥
मृत्युञ्जयाष्टकं दिव्यं त्रिकाले यः पठेन्नरः ।
अपमृत्युर्व्रजेत्तस्य सत्यं सत्यं शिवाज्ञया ॥ ९॥
अर्धरात्रे जपेन्नित्यं चतुरशीतिसङ्ख्यया ।
काले मृत्युर्विनश्येत अकालाल्पस्य का कथा ॥ १०॥
आलस्येनाप्रसङ्गेन श्रद्धाहीनेन चेतसा ।
पठेद्यद्यप्यकालेषु ध्रुवं मृत्युं निवारयेत् ॥ ११॥
॥ इति महामृत्युञ्जयाष्टकम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowमहामृत्युञ्जयाष्टकम्
READ
महामृत्युञ्जयाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
