श्रीमहेश्वरप्रातःस्मरणं एवं पञ्चरत्नस्तोत्रम् PDF संस्कृत
Download PDF of Maheshvarapratahsmaranastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीमहेश्वरप्रातःस्मरणं एवं पञ्चरत्नस्तोत्रम् संस्कृत Lyrics
|| श्रीमहेश्वरप्रातःस्मरणं एवं पञ्चरत्नस्तोत्रम् ||
प्रातः स्मरामि परमेश्वरवक्त्रपद्मं
फालाक्षलोलपरिशोषितपञ्चबाणम् । (फालाक्षि कील)
भस्मत्रिपुण्ड्ररचितं फणिकुण्डलाढ्यं
कुन्देन्दुचन्दनसुधारसमन्दहासम् ॥ १॥
प्रातर्भजामि परमेश्वरबाहुदण्डान्
खट्वाङगशूलहरिणाहिपिनाकयुक्तान् । (हरिणाः पिनाकरुक्तान्)
गौरीकपोलकुचरञ्जितपुत्ररेखान् (पत्ररेखान्)
सौवर्णकङ्कणमणिद्युतिभासमानान् ॥ २॥ (भासमानाम्)
प्रातर्नमामि परमेश्वरपादपद्मं
पद्मोद्भवामरमुनीन्द्रमनोनिवासम् ।
पद्माक्षनेत्रसरसीरुहपूजनीयं
पद्माङ्कुशध्वजविसेवित लाञ्छनाढ्यम् ॥ ३॥ (पद्माङ्कुशध्वज सरोरुह)
प्रातः स्मरामि परमेश्वरपुण्यमूर्तिं
कर्पूरकुन्दधवलं गजचर्मचेलम् ।
गङ्गाधरं कनकमर्दविभासमानं (घनकपर्दि)
कात्यायनीतनुविभूषितवामभागम् ॥ ४॥
प्रातः स्मरामि परमेश्वरपुण्यनाम
श्रेयप्रदं सकलदुःखविनाशहेतुम् ।
संसारतापशमनं कलिकल्मषघ्नं
गोकोटिदानफलदं स्मरणेन पुंसाम् ॥ ५॥
इति श्रीमहेश्वरप्रातःस्मरणपञ्चरत्नस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीमहेश्वरप्रातःस्मरणं एवं पञ्चरत्नस्तोत्रम्
READ
श्रीमहेश्वरप्रातःस्मरणं एवं पञ्चरत्नस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
