महिषमर्दिनी कवचम् PDF संस्कृत
Download PDF of Mahishamardini Kavacham Sanskrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
महिषमर्दिनी कवचम् संस्कृत Lyrics
|| महिषमर्दिनी कवचम् ||
अथ वक्ष्ये महेशानि कवचं सर्वकामदम् । (महादेवी)
यस्य प्रसादमासाद्य भवेत् साक्षात् सदाशिवः ॥ १॥
ॐकारं पूर्वमुच्चार्य मन्त्री मन्त्रस्य सिद्धये ।
प्रपठेत् कवचं नित्यं मन्त्रवर्णस्य सिद्धये ॥ २॥
विनियोगः-
ॐ महिषमर्दिन्याः कवचस्य भगवान्महाकालऋषिः
अनुष्टुप् छन्दः, आद्याशक्तिः, महिषमर्द्दिनी देवता,
चतुर्वर्गफलाप्त्यर्थे विनियोगः ॥
क्लीं पातु मस्तके देवी कामिनी कामदायिनी ।
मकारे पातु मां देवी चक्षुर्युग्मं महेश्वरी ॥ ३॥
हिकारे पातु वदने हिङ्गुला-सुर -नायिका ।
शकारे पातु मां श्वेता जिह्वायां चापराजिता ॥ ४॥ त्वपराजिता)
मकारे पातु मां देवी मर्दिनी सुरनायिका ।
दिकारे पातु मां देवी सावित्री फलदायीनी ॥ ५॥ (सावित्री कालनाशिनी)
निकारे पातु मां नित्या हृदये वासपार्श्वयोः ।
नाभौ लिङ्गे गुदे कण्ठे कर्णयोस्पृष्टयोस्तथा ॥ ६॥ (कर्णयोः पार्श्वयोस्तथा)
शिखायां कवचे पातु मुश्वजङ्घायुगे तथा ।
सर्वाङ्गे पातु मां स्वाहा सर्वशक्तिसमन्विता ॥ ७॥
कामाद्या पातु मां स्वाहा सर्वाङ्गे पातु मर्दिनी ।
दशाक्षरी महाविद्या सर्वाङ्गे पातु मर्दिनी ॥ ८॥
मर्दिनी पातु सततं मर्दिनी रक्षयेत् सदा ।
राजस्थाने तथा दुर्गे सिंहव्याघ्रभयादिषु ॥ ९॥
श्मशाने प्रान्तरे दुर्गे नौकायां वह्निमध्यतः ।
दुर्गा पातु सदा देवी आर्या पातु सदाशिवा ॥ १०॥
प्रभा पातु महेशानी गगने पातु सर्वदा । (कनका पातु)
नन्दिनी पातु सततं मुद्राः पातु सदा मम ।
कृत्तिका पातु सततमभया सर्वदाऽवतु ॥ ११॥
प्रभा पातु महामाया माया पातु सदा मम ।
नन्दिनी पातु सततं सुप्रभा सर्वदाऽवतु ॥ १२॥
विजया पातु सर्वत्र देव्यङ्गे नवशक्तयः ।
शक्तयः पातु सततं मुद्राः पातु सदा मम ॥ १३॥
जया पातु सदा सूक्ष्मा विशुद्धा पातु सर्वदा । (सदा लक्ष्मी)
डाकिन्याः पातु सततं सिद्धाः पातु सदा मम ॥ १४॥
सर्वत्र सर्वदा पातु देवी महिषमर्दिनी ।
इति ते कवचं दिव्यं कथितं सर्वकामदम् ॥ १५॥
यत्र तत्र न वक्तव्यं गोपितव्यं प्रयत्ततः ।
गोपितं सर्वतन्त्रेषु विश्वसारे प्रकाशितम् ॥ १६॥
सर्वत्र सुलभा विद्या कवचं दुर्लभं महत् ॥।
शठाय भक्तिहीनाय निन्दकाय महेश्वरि ॥ १७॥
न्यूनाङ्गे ह्यतिरिक्ताङ्गे क्रूरे मिथ्यातिभाषिणि ।
न स्तवं दर्शयेद्दिव्यं कवचं सुरदुर्लभम् ॥ १८॥
यत्र तत्र न वक्तव्यं शङ्करेण च भाषितम् ।
दत्त्वा तेभ्यो महेशानि नश्यन्ति सिद्धयः क्रमात् ॥ १९॥
मन्त्राः पराङ्मुखा यान्ति शापं दत्त्वा सुदारुणम् ।
अशुभं च भवेत्तस्य तस्माद्यत्नेन गोपयेत् ॥ २०॥
गोरोचना कुकुमेन भूर्जपत्रे महेश्वरि ।
लिखित्वा शुभयोगेन ब्राह्मैन्द्रे वैधृतौ तथा ॥ २१॥
आयुष्मत्सिद्धियोगे च बालवे कौलवेपि वा ।
वाणिजे श्रवणायां च रेवत्यां वा पुनर्वसौ ॥ २२॥
उत्तरात्रययोगेषु तथा पूर्वात्रयेषु च ।
अश्विन्यां वाऽथ रोहिण्यां तृतीया-नवमीतिथौ ॥ २३॥
अष्टम्यां वा चतुर्दश्यां षष्ठ्यां वा पञ्चमीतिथौ ।
अमायां वा पूर्णिमायां निशायां प्रान्तरे तथा ॥ २४॥
एकलिङ्गे श्मशाने च शून्यागारे शिवालये ।
गुरुणां वैष्णवैर्वापि स्वयम्भू कुसुमैस्तथा ॥ २५॥
शुक्लैर्वा रक्तकुसुमैश्चन्दनै रक्तसंयुतैः । (
शवाङ्गारचितावस्त्रे लिखित्वा धारयेत्पुनः ॥ २६॥
तस्य सर्वार्थसिद्धिः स्याच्छङ्करेणैव भाषितम् ।
कुमारीं पूजयित्वा च देवीसूक्तं निवेद्य च ॥ २७॥
पठित्वा पूजयेद्विप्रान्धनवान्वेद पारगान् ।
आखेटकमुपाख्यानं कुमार्यैव दिनत्रयम् ॥ २८॥
तदा धरेन्महारक्षां कवचं सर्वकामदम् । (तदा भवेन्)
नाधयो व्याधयस्तस्य दुःखशोकैर्भयं क्वचित् ॥ २९॥
वादी मूको भवेदृष्टवा राजा च सेवकायते ।
मासमेकं पठेद्यस्तु प्रत्यहं नियतः शुचिः ॥ ३०॥
दिवा भवेद्धविष्याशी रात्रौ शक्तिः परायणः ।
षट्सहस्र प्रमाणेन प्रत्यहं प्रजपेत्सदा ॥ ३१॥
षण्मासैर्वा त्रिभिर्मासैर्विद्वरो भवति ध्रुवम् ।
अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् ॥ ३२॥
अरोगी बलवांश्चैव राजा ता दासतामियात् ।
रजस्वलाभगे नित्यं जपेद्विद्यां समाहितः ।
एवं यः कुरुते धीमान्स एवं श्रीसदाशिवः ॥ ३३॥
(आगमकल्पलता १५-३१७)॥
इति विश्वसारतन्त्रे महिषमर्दिन्यां कवचं समाप्तम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowमहिषमर्दिनी कवचम्
READ
महिषमर्दिनी कवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
