श्रीमलहानिकरेश्वरस्तुतिः PDF संस्कृत
Download PDF of Malahanikareshvarastutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्रीमलहानिकरेश्वरस्तुतिः संस्कृत Lyrics
|| श्रीमलहानिकरेश्वरस्तुतिः ||
(श्रीशृङ्गगिरौ – श्रीभवानीमलहानिकरेश्वरकल्याणोत्सवे)
स्वग्रामगमनवाच्छा सर्वेषां प्रकृतिसिद्धा हि ।
काशीयात्रा तस्मात्काशीश तवैव खलु युक्ता ॥ १॥
शीर्षान्मुक्ताहारव्याजात्स्वर्गापगा शम्भोः ।
गङ्गाधर विस्रस्ता नृत्यं किमु कुर्वतस्तवेशान ॥ २॥
शरदिन्दुसोदरमुखं करनिर्जितपङ्कजं कृपाम्भोधिम् ।
त्वां पश्यन्तं मामिह क्षुत्तृष्णे नैव बाधेते ॥ ३॥
सर्वाङ्गसुन्दर विभो करुणामृतपूरपूरितापङ्ग ।
त्वां चक्षुषी ममेमे न त्यजतः किं करोमि वद शम्भो ॥ ४॥
तस्मात्तवेयमनिशं मूर्तिः प्रस्फुरति चित्तकञ्जाते ।
यद्वत्तथा कुरु त्वं करुणां गिरिजाब्जशिशुभानो ॥ ५॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीमलहानिकरेश्वरस्तुतिः सम्पूर्णा ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीमलहानिकरेश्वरस्तुतिः
READ
श्रीमलहानिकरेश्वरस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
