मालावतिकृतं श्रीकृष्णस्तोत्रम् PDF संस्कृत
Download PDF of Malavatikrritamshrikrrishnastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
मालावतिकृतं श्रीकृष्णस्तोत्रम् संस्कृत Lyrics
|| मालावतिकृतं श्रीकृष्णस्तोत्रम् ||
मालावत्युवाच ।
वन्दे तं परमात्मानं सर्वकारणकारणम् ।
विना येन शवाः सर्वे प्राणिनो जगतीतले ॥ ९॥
निर्लिप्तं साक्षिरूपं च सर्वेषां सर्वकर्मसु ।
विद्यमानं न दृष्टं च सर्वैः सर्वत्र सर्वदा ॥ १०॥
येन सृष्टा च प्रकृतिः सर्वाधारा परात्परा ।
ब्रह्मविष्णुशिवादीनां प्रसूर्या त्रिगुणात्मिका ॥ ११॥
जगत्स्रष्टा स्वयं ब्रह्मा नियतो यस्य सेवया ।
पाता विष्णुश्च जगतां संहर्त्ता शङ्करः स्वयम् ॥ १२॥
ध्यायन्ते यं सुराः सर्वे मुनयो मनवस्तथा ।
सिद्धाश्च योगिनः सन्तः सन्ततं प्रकृतेः परम् ॥ १३॥
साकारं च निराकारं परं स्वेच्छामयं विभुम् ।
वरं वरेण्यं वरदं वरार्हं वरकारणम् ॥ १४॥
तपःफलं तपोबीजं तपसां च फलप्रदम् ।
स्वयन्तपःस्वरूपं च सर्वरूपं च सर्वतः ॥ १५॥
सर्वाधारं सर्वबीजं कर्म तत्कर्मणां फलम् ।
तेषां च फलदातारं तद्बीजं क्षयकारणम् ॥ १६॥
स्वयन्तेजःस्वरूपं च भक्तानुग्रहविग्रहम् ।
सेवाध्यानं न घटते भक्तानां विग्रहं विना ॥ १७॥
तत्तेजो मण्डलाकारं सूर्यकोटिसमप्रभम् ।
अतीव कमनीयं च रूपं तत्र मनोहरम् ॥ १८॥
नवीननीरदश्यामं शरत्पङ्कजलोचनम् ।
शरत्पार्वणचन्द्रास्यमीषद्धास्यसमन्वितम् ॥ १९॥
कोटिकन्दर्पलावण्यं लीलाधाम मनोहरम् ।
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् ॥ २०॥
द्विभुजं मुरलीहस्तं पीतकौशेयवाससम् ।
किशोरवयसं शान्तं राधाकान्तमनन्तकम् ॥ २१॥
गोपाङ्गनापरिवृतं कुत्रचिन्निर्जने वने ।
कुत्रचिद्रासमध्यस्थं राधया परिषेवितम् ॥ २२॥
कुत्रचिद्गोपवेषं च वेष्टितं गोपबालकैः ।
शतशृङ्गाचलोत्कृष्टे रम्ये वृन्दावने वने ॥ २३॥
निकरं कामधेनूनां रक्षन्तं शिशुरूपिणम् ।
गोलोके विरजातीरे पारिजातवने वने ॥ २४॥
वेणुं क्वणन्तं मधुरं गोपीसम्मोहकारणम् ।
निरामये च वैकुण्ठे कुत्रचिच्च चतुर्भुजम् ॥ २५॥
लक्ष्मीकान्तं पार्षदैश्च सेवितं च चतुर्भुजैः ।
कुत्रचित्स्वांशरूपेण जगतां पालनाय च ॥ २६॥
श्वेतद्वीपे विष्णुरूपं पद्मया परिषेवितम् ।
कुत्रचित्स्वांशकलया ब्रह्माण्डब्रह्मरूपिणम् ॥ २७॥
शिवस्वरूपं शिवदं स्वांशेन शिवरूपिणम् ।
स्वात्मनः षोडशांशेन सर्वाधारं परात्परम् ॥ २८॥
स्वयं महद्विराड्रूपं विश्वौघं यस्य लोमसु ।
लीलया स्वांशकलया जगतां पालनाय च ॥ २९॥
नानावतारं बिभ्रन्तं बीजं तेषां सनातनम् ।
वसन्तं कुत्रचित्सन्तं योगिनां हृदये सताम् ॥ ३०॥
प्राणरूपं प्राणिनां च परमात्मानमीश्वरम् ।
तं च स्तोतुमशक्ताऽहमबला निर्गुणं विभुम् ॥ ३१॥
निर्लक्ष्यं च निरीहं च सारं वाङ्मनसोः परम् ।
यं स्तोतुमक्षमोऽनन्तः सहस्रवदनेन च ॥ ३२॥
पञ्चवक्त्रश्चतुर्वक्त्रो गजवक्त्रः षडाननः ।
यं स्तोतुं न क्षमा माया मोहिता यस्य मायया ॥ ३३॥
यं स्तोतुं न क्षमा श्रीश्च जडीभूता सरस्वती ।
वेदा न शक्ता यं स्तोतुं को वा विद्वांश्च वेदवित् ॥ ३४॥
किं स्तौमि तमनीहं च शोकार्त्ता स्त्री परात्परम् ।
इत्युक्त्वा सा च गान्धर्वी विरराम रुरोद च ॥ ३५॥
इति ब्रह्मवैवर्तपुराणे ब्रह्मखण्डे अष्टादशाध्यायान्तर्गतं
मालावतिकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowमालावतिकृतं श्रीकृष्णस्तोत्रम्
READ
मालावतिकृतं श्रीकृष्णस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
