श्रीमल्लारिकवचम् PDF संस्कृत
Download PDF of Mallarikavacham Sanskrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
श्रीमल्लारिकवचम् संस्कृत Lyrics
|| श्रीमल्लारिकवचम् ||
मल्हारिकवचम्
श्रीगणेशाय नमः ।
अस्य श्रीमल्लारिकवचमन्त्रस्य स्कन्दऋषिः ।
अनुष्ठुप्छन्दः । श्रीमल्लारिदेवता ।
श्रीमल्लारिकवचजपे विनियोगः ॥
अथ ध्यानम् ।
ध्यायेन्मल्लारिदेवं कनकगिरीनिभं म्हालसाभूषिताङ्कं
श्वेताश्वं खड्गहस्तं विबुधबुधगणैस्सेव्यमानं कृतार्थे ।
युक्ताङ्घ्रि दैत्यमूर्घ्नी डमरुविलसितं नैशचूर्णाभिरामं
नित्यंभक्तेषु तुष्टं श्वगणपरिवृतं नित्यमोंकाररूपम् ॥
अथ कवचम् ।
सनत्कुमार उवाच ।
मुनीनां सप्तकोटीनां वरदं भक्तवत्सलम् ।
दुष्टमर्दनदेवेशं वन्देऽहं म्हालसापतिम् ॥ १॥
अनुग्रहाय देवानां मणिरत्नगिरी स्थितम् ।
प्रसन्नवदनं नित्यं वन्देऽहं मल्लवैरिणम् ॥ २॥
सर्वदेवमयं शान्तं कौमारं करुणाकरम् ।
आदिरुद्रं महारुद्रं वन्देऽहं सात्विकप्रियम् ॥ ३॥
भुक्तिमुक्तिप्रदं देवं सर्वाभरणभूषितम् ।
कोटिसूर्यप्रतीकाशं वन्देऽहमसुरान्तकम् ॥ ४॥
आदिदेवं महादेवं मल्लारिपरमेश्वरम् ।
वीरसत्त्वं विरूपाक्षं वन्देऽहं भक्तवत्सलम् ॥ ५॥
भोगरूपपरंज्योतिः शिरोमालाविभूषितम् ।
त्रिशूलादिधरं देवं वन्देऽहं लोकरक्षकम् ॥ ६॥
इदं पठति यो भक्त्या मल्लारिप्रीतिकारकम् ।
भक्तानां वरदं नित्यं प्रणतोऽस्मि महेश्वरम् ॥ ७॥
फलश्रुतिः –
वने रणे महादुर्गे राजचोरभयोऽप्लुते ।
शाकिनीडाकिनीभूतपिशाचोरगराक्षसाः ।
ग्रहपीडासु रोगेषु विषसर्पभयेषु च ॥ ८॥
सदा मल्लारिमल्लारिमल्लारिरिति कीर्तनम् ।
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ ९॥
त्रिकाले तु पठेन्नित्यं विष्णुलोकं स गच्छती ।
देहान्ते तु तं प्राप्नोती सर्वलोके महीयते ॥ १०॥
इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे मल्लारिमाहात्म्ये
श्रीमल्हारिकवचं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीमल्लारिकवचम्
READ
श्रीमल्लारिकवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
