श्रीमलूकदासाचार्याष्टकम् PDF संस्कृत
Download PDF of Malukadasacharyashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीमलूकदासाचार्याष्टकम् संस्कृत Lyrics
|| श्रीमलूकदासाचार्याष्टकम् ||
आनन्दभाष्यकारस्य धर्मस्य परिरक्षकम् ।
वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम् ॥ १॥
अर्पयित्वा भरं रामे सन्तोषामृतपायिनम् ।
वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम् ॥ २॥
रार्मानन्दकृतानन्दभाष्यसिद्धान्तपालकम् ।
वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम् ॥ ३॥
भक्त्या चाथ प्रत्यत्त्या च कर्मबन्धननाशकम् ।
वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम् ॥ ४॥
रामकीर्त्तनकर्त्तारं रामभक्तिप्रचारकम् ।
वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम् ॥ ५॥
मन्त्रमालोर्ध्वपुण्ड्रादेः शिष्येभ्यः सम्प्रदायकम् ।
वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम् ॥ ६॥
व्याख्यातारं रहस्यानां त्रयाणां तत्त्वकोविदम् ।
वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम् ॥ ७॥
सिद्धवादिसमूहस्य विजेतारं तपस्विनम् ।
वन्दे मलूकदासार्यं द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीमलूकदासाचार्याष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीमलूकदासाचार्याष्टकम्
READ
श्रीमलूकदासाचार्याष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
