मन्त्रोत्कीलन विमोचन स्तोत्र्म् PDF संस्कृत
Download PDF of Mantrotkilanavimochanastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
मन्त्रोत्कीलन विमोचन स्तोत्र्म् संस्कृत Lyrics
|| मन्त्रोत्कीलन विमोचन स्तोत्र्म् ||
अस्य श्री सर्वमन्त्रोत्कीलन मन्त्रस्य मूलप्रकृति पुरुष ऋषि
अनुष्टुप् जगती छन्दः श्री महाविद्या देवता निरङ्कारा
मायाशक्तिः ह्रीं ह्रीं बीजं क्रौं
कीलकं मम क्रियमाण सञ्चित जन्म मरण सर्वमन्त्रोत्कीलन–
शाप विमोचन द्वारा धर्मार्थकाममोक्षार्थे जपे विनियोगः ।
न्यासः –
ह्रीं बीजोत्कीलनं अङ्गुष्ठाभ्यां नमः हृदयाय नमः
श्रीं मन्त्रोत्कीलनं तर्जनीभ्यां नमः शिरसे स्वाहा
क्लीं देवोत्कीलनं मध्यमाभ्यां नमः शिखायै वषट्
ऐं शक्त्यात्कीलनं अनामिकाभ्यां नमः कवचाय हुं
सौः छन्दोत्कीलनं कनिष्ठिकाभ्यां नमः नेत्रत्रयाय वौषट्
क्रौं ऋष्योत्कीलनं करतलकरपृष्ठाभ्यां नमः अस्त्राय फट्
ध्यानम् –
चिन्तयन्तीं चैतन्यरूपां ब्रह्मबीजामानन्दकन्दां
सर्वान्तरांश चेतयन्तीं तारयन्तीं तां मन्त्रजालैः ।
चेतयन्तीं प्रकृतिपुरुष बीजमखिलं सञ्जीवनी
मन्त्रयन्त्रोत्कीलनी सर्वमन्त्रशाप विमोचयन्ती ॥
अथ स्तोत्रम् –
अं आं ब्रह्म इं ईं स्वरूपी एं ऐं उत्कीलनी विमुञ्चती ।
अं अः प्रकाशयन्ती मम मनास्तु सर्वमन्त्रसिद्धिप्रदायिनी ॥ १
यथा च वर्णरूपाणि नामकर्मात्मिका परा ।
त्वयैतत्सृज्यते सर्व पाल्यते च तथैव च ॥ २
सृष्टिस्थितिकरी चैव सर्वप्रलयकारिणी ।
निरञ्जनस्य देवस्य नाम कर्मविधायिनी ॥ ३
बद्धो विमुच्यते सर्व त्वयैव ब्रह्मरूपिणी ।
त्वमाद्यानन्त शक्तीनां प्रवाहो जायते तया ॥ ४
संस्मृतापूजिताऽनन्ता योगिनामपि सिद्धिदा ।
त्वयाब्रह्मविरिञ्चाद्या भ्रमन्ते निज कर्मणा ॥ ५
तथैव च महाविष्णुः सर्वदेवस्तुति ततः ।
सा तुष्टा सर्व मन्त्राणां मृतानां चेतनी सदा ॥ ६
मृतसञ्जीवनीशम्भो प्रसादाच्छुक्र सिद्धिदा ।
ब्रह्माण्डं चेतयन्ती विविध सुरगणान् प्रमोदैः प्रीताः ।
सन्दीपयन्ति निजगुण विततैः षड्गुणान् प्रेरयन्ती ।
वर्णान्देवान् जयन्ती दितिसुत दमनी साप्य हुङ्कार कार्त्री
क्षेत्री तस्यैव जाप्यं स्वर विततनुतां मोचयेच्छाय जातम् ॥
इदं महात्रिपुर सुन्दरी स्तोत्रं पठेत् भक्त्यास्तु यो नरः ।
सर्वान्कामानवाप्नोति सर्वसिद्धिः भवेत् ध्रुवम् ॥
इति शिवरहस्ये पञ्चरात्रे मध्यम संहितायां
शिवशक्ति संवादे शैव वैष्णव शक्ति सौर गाणपत्य
मन्त्रोत्कीलन विमोचन स्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowमन्त्रोत्कीलन विमोचन स्तोत्र्म्
READ
मन्त्रोत्कीलन विमोचन स्तोत्र्म्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
