श्रीमार्गसहायलिङ्गस्तुती PDF संस्कृत
Download PDF of Margasahayalingastuti Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्रीमार्गसहायलिङ्गस्तुती संस्कृत Lyrics
|| श्रीमार्गसहायलिङ्गस्तुती ||
॥ श्रीमद् अप्पय्यदीक्षितेन्द्रैः विरचिता ॥
पयो-नदीतीर निवासलिङ्गं बालार्क-कोटि प्रतिमं त्रिनेत्रम् ।
पद्मासनेनार्चित दिव्यलिङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ १॥
गङ्गातरङ्गोल्लसदुत्तमाङ्गं गजेन्द्र-चर्मांबर भूषिताङ्गम् ।
गौरी-मुखांभोज-विलोल-भृङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ २॥
सुकङ्कणीभूत महाभुजङ्गं संज्ञान-संपूर्ण-निजान्तरङ्गम् ।
सूर्येन्दु-बिंबानल-भूषिताङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ ३॥
भक्तप्रियं भावविलोलभृङ्गं भक्तानुकूलामल भूषिताङ्गम् ।
भावैक-लोक्यान्तरमादिलिङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ ४॥
सामप्रियं सौम्य महेशलिङ्गं सामप्रदं सौम्य-कटाक्षलिङ्गम् ।
वामाङ्ग-सौन्दर्य-विलोलिताङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ ५॥
पञ्चाक्षरी-भूत-सहस्रलिङ्गं पञ्चामृतस्नान-परायणाङ्गम् ।
पञ्चामृतांभोज-विलोल-भृङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ ६॥
वन्दे सुराराधित-पादपद्मं श्रीश्यामवल्ली-रमणं महेशम् ।
वन्दे महामेरु-शरासनं शिवं वन्दा सदा मार्गसहायलिङ्गम् ॥ ७॥
॥ इति श्री मार्गसहायलिङ्ग स्तुतिः संपूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीमार्गसहायलिङ्गस्तुती
READ
श्रीमार्गसहायलिङ्गस्तुती
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
