मातृभूतेश्वराष्टकम् PDF संस्कृत
Download PDF of Matrribhuteshvarashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
मातृभूतेश्वराष्टकम् संस्कृत Lyrics
|| मातृभूतेश्वराष्टकम् ||
माता त्वं च पितासि सर्वजगतां माता पिता वा न ते
तस्मात्त्वं भुवि विश्रुतोऽसि भगवंस्त्वं मातृभूतेश्वरः ।
तेन त्वं महिलार्धविग्रह इति ख्यातश्च नाम्नैव ते
तत्वार्थाकलनाय केवलमसौ जागर्ति योगेश्वरी ॥ १॥
सिद्धक्षेत्रमिदं जगत्सुविदितं देवोऽरुणाद्रीश्वरः
सिद्धश्रीरमणीयहस्तविभवाच्छ्रीमातृभूतेश्वरः ।
सिद्धोऽसौ भुवि सिद्धिदस्सह महायोगेश्वरीजायया
पर्याप्तन्त्विदमेतदीयमहिमप्रख्यापने भूजुषाम् ॥ २॥
भीमैर्भोगिवरैर्विभूषिततनुर्यद्यप्यभीतिप्रदः
पूतः प्रेतनिकेतगोऽपि फलदो भिक्षाकएवस्वयम् ।
साकं श्रीरमणेश्वरेण भजतां ध्यानास्पदं योगिनां
सोऽयं चित्रचरित्रको विजयते श्रीमातृभूतेश्वरः ॥ ३॥
भीतो भीमभुजङ्गमैर्न च तथा प्रीतो हिमांशोः करा-
त्पूतो जह्नुसुताजलान्नच न चापूतोऽस्थिसम्भूषणात् ।
नो दुःखी चितिभस्मनः पितृवनावासाच्च योगाम्बिका-
सङ्गान्नापि सुखी समो विषमदृक् श्रीमातृभूतोऽवतु ॥ ४॥
दिग्रूपं वसनं विहाय रुचिरं क्षौमं वसानश्शुभं
हित्वा वासरुचिं श्मशानगहने पुण्याश्रमैकाश्रयः ।
चित्यं भस्म विहाय चन्दनरसैर्माल्यैः कृतालङ्क्रियः
योगाम्बागृहमेधिको विजयते श्रीमातृभूतेश्वरः ॥ ५॥
यच्छक्त्या रमणाश्रमस्थलमिदं भूवासिनां नन्दनं
जातं स्वस्य विचित्रशिल्पिरचनावैचित्र्यचैत्यं महत् ।
शोणाद्रीश्वरसानुगस्स जगतामीशो निरीशस्स्वयं
सर्वैश्वर्यनिधिर्धुनोतु दुरितं श्रीमातृभूतेश्वरः ॥ ६॥
गङ्गाचन्द्रकलाधरोऽसि शिरसि श्रीमातृभूतेश ! ते
वामार्धे करुणारसार्द्रहृदया योगेश्वरी राजते ।
शीताङ्गाश्च भुजङ्गमाः करपदोः किञ्चाभिषेकोऽनिशं
सह्यं शत्यमिदं कथं यदि वसेश्चित्ते न तप्ते मम ॥ ७॥
माताऽभूद्रमणस्य या भगवतस्सौन्दर्यनाम्नी सती
पश्चात् सैव समस्तलोकजननीत्वेनापि सम्पूजिता ।
अद्यत्वे तु विहाय सा परिणता स्त्रीत्वं पुमाकारतो
लिङ्गातिक्रमरूपतश्च लसति श्रीमातृभूतेश्वरः ॥ ८॥
भगवद्रमणाचार्य मातृभूतेश्वरस्तुतिः ।
अर्पिता तत्पदद्वन्द्वे जगदीश्वरशास्त्रिणा ॥ ९॥
इति मातृभूतेश्वराष्टकं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowमातृभूतेश्वराष्टकम्
READ
मातृभूतेश्वराष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
