मीनाक्षी पंचरत्न स्तोत्र PDF

Download PDF of Meenakshi Pancharatnam Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी

|| मीनाक्षी पंचरत्न स्तोत्र || उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलां बिम्बोष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृताम्। विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्त्वस्वरूपां शिवां मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम्। मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभां शिञ्चन्नूपुरकिङ्किणीमणिधरां पद्मप्रभाभासुराम्। सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितां मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम्। श्रीविद्यां शिववामभागनिलयां ह्रीङ्कारमन्त्रोज्ज्वलां श्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायकिम्। श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम्। श्रीमत्सुन्दरनायकीं भयहरां ज्ञानप्रदां निर्मलां श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम्। वीणावेणुमृदङ्गवाद्यरसिकां नानाविधाडम्बिकां मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम्। नानायोगिमुनीन्द्रहृन्निवसतीं नानार्थसिद्धिप्रदां नानापुष्पविराजिताङ्घ्रियुगलां...

READ WITHOUT DOWNLOAD
मीनाक्षी पंचरत्न स्तोत्र
Share This
Download this PDF