मुचुकुन्दस्तुतिः PDF संस्कृत
Download PDF of Muchukundastutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
मुचुकुन्दस्तुतिः संस्कृत Lyrics
|| मुचुकुन्दस्तुतिः ||
मुचकुन्द उवाच
कृष्णाय वासुदेवाय देवकीनन्दनाय च ।
नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ १॥
नमः पङ्कजनभाय नमः पङ्कजमालिने ।
नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ २॥
नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने ।
प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ ३॥
नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥ ४॥
हरे मत्समः पातकी नास्ति भूमौ तथा त्वत्समो नास्ति पापापहारी ।
इति त्वं च मत्वा जगन्नाथ देव यथेच्छा भवेत्ते तथा मां कुरु त्वम् ॥ ५॥
इति गर्गसंहितायां द्वारकाखण्डे द्वितीयाध्यायान्तर्गता
मुचुकुन्दस्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowमुचुकुन्दस्तुतिः
READ
मुचुकुन्दस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
