श्रीमुकुन्दरायाष्टकम् PDF संस्कृत
Download PDF of Mukundarayashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीमुकुन्दरायाष्टकम् संस्कृत Lyrics
|| श्रीमुकुन्दरायाष्टकम् ||
(रामकली-गणेश गीयते)
वनितोपहासनृत्यत्स्मितवदनानन्दजोषतोषदायिन् ।
श्रीमन्मुकुन्दराय त्वय्यासक्तं मनो मेऽस्तु ॥ १॥
मणिमयनन्दावासे कुमारिकावृन्दशोभिसद्धास्ये ।
नवनीतलोभितास्ये (सततं त्वयि हरौ) मतिर्मेऽस्तु ॥ २॥
परिधृतहीरकहारं व्रजाङ्गनादर्शनीयकौमारम् ।
कृतगोपुच्छविहारं जितमारं प्रणौमि हृत्सारम् ॥ ३॥
सकलोपनिषत्सारं स्वानन्दाप्राकृताकारम् ।
वन्दे नन्दकुमारं वारं वारं स्वदातारम् ॥ ४॥
किङ्कणीनूपुररणितं (सततं) सिंहावलोकनं कर्त्रे ।
व्रजजनमानसहर्त्रे निजार्तिहर्त्रे नमस्कुर्मः ॥ ५॥
अलकसमावृतवदनं सुकुन्दकलिकासुशोभितं स्वास्यम् ।
गोपयुवतीरतिसदनं जितमदनं नन्दनन्दनं नौमि ॥ ६॥
व्रजकर्दमलिप्ताङ्गं करधृतनवनीतमोहितानङ्गम् ।
वन्दे लोलविलोचनासक्ताङ्गनासङ्गम् ॥ ७॥
नर्तनलीलाकरणं मनोहरणं वपुषा नन्दविस्तरणम् ।
सेवकजनभवतरणं यामि तमहं सदैव शरणम् ॥ ८॥
तव लीलारसलुब्धाः श्रीमुकुन्दरायाष्टकं प्रेष्णा ।
साधनजालसहस्रं त्यक्त्वाजस्रं पठध्वं वै ॥ ९॥
इति श्रीमद्यदुनाथकुलोद्भवश्रीगोपालात्मजश्रीगिरधरेणविरचितं
श्रीमुकुन्दरायाष्टकं समाप्तम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीमुकुन्दरायाष्टकम्
READ
श्रीमुकुन्दरायाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
