श्रीमुकुन्दस्मरणाष्टकम् PDF संस्कृत
Download PDF of Mukundasmaranashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीमुकुन्दस्मरणाष्टकम् संस्कृत Lyrics
|| श्रीमुकुन्दस्मरणाष्टकम् ||
जगद्गुरु श्रीनिम्बार्काचार्यपीठाधीश्वर
श्रीराधासर्वेश्वरशरणदेवाचार्य महाराज विरचित
कदम्बकुञ्जावलिशोभमानं, वेणुं क्वणन्तं यमुनाप्रतीरे ।
श्रीराधया सार्द्धमुपासनीयं, श्रीमन्मुकुन्दं मनसा स्मरामि ॥ १॥
वृन्दावने नित्यनिकुञ्जमध्ये, हिरण्यसिंहासनराजमानम् ।
सखीकदम्बैः सह सेव्यमानं श्रीमन्मुकुन्दं मनसा स्मरामि ॥ २॥
लावण्य-कारुण्यगुणैकधाम, वीधीशदेवेन्द्रसुमृग्यमाणम् ।
वेदैः पुराणै-र्नितरां प्रगेयं श्रीमन्मुकुन्दं मनसा स्मरामि ॥ ३॥
गन्धर्वगेयं श्रुतिमन्त्रवर्ण्य, व्रजे वसन्तं व्रजजीवनञ्च ।
सद्भिः प्रभातेऽनुदिनं प्रगीतं श्रीमन्मुकुन्दं मनसा स्मरामि ॥ ४॥
यतीन्द्र-योगीन्द्र-मुनीन्द्रवृन्दै-र्ध्ययञ्च चित्ते सनकादिवर्यैः ।
सर्वेश्वरं कृष्णमनन्तरूपं, श्रीमन्मुकुन्दं मनसा स्मरामि ॥ ५॥
व्रजाङ्गनाभिः सह रासलीलां, नित्यं लसन्तं व्रजमञ्जुकुञ्जे ।
कदम्ब-जम्बू-तरुसान्द्रपूर्णे, श्रीमन्मुकुन्दं मनसा स्मरामि ॥ ६॥
भृङ्गाऽच्छपुञ्जाऽतिसुगुञ्चितेच, लतावलीपादपपुञ्जरम्ये ।
कदम्बवृक्षोपरि शोभमानं, श्रीमन्मुकुन्दं मनसा स्मरामि ॥ ७॥
मायूरपिच्छाऽऽप्तसुमौलिनञ्च, व्रजेश्वरं राधिकया हि सार्द्धम् ।
सखीजनैश्चारुसु कीर्तनीयं, श्रीमन्मुकुन्दं मनसा स्मरामि ॥ ८॥
श्रीयुग्मभक्तिदं स्तोत्रं मुकुन्दस्मरणाष्टकम् ।
राधासर्वेश्वराद्येन शरणान्तेन निर्मितम् ॥ ९॥
इति श्रीमुकुन्दस्मरणाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीमुकुन्दस्मरणाष्टकम्
READ
श्रीमुकुन्दस्मरणाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
