श्रीमुकुन्दवन्दनाष्टकम् PDF संस्कृत
Download PDF of Mukundavandanashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीमुकुन्दवन्दनाष्टकम् संस्कृत Lyrics
|| श्रीमुकुन्दवन्दनाष्टकम् ||
देवं प्रपन्नार्तिहरं शरण्यं सत्यं चिदानन्दमयस्वरूपम् ॥
मुक्तोपसृप्यं नवनीरदाभं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ १॥
सौशील्यवात्सल्यगुणाढ्यमीशं कुञ्जेश्वरं रासविहारशीलम् ॥
सखीसमूहैः परिगीयमानं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ २॥
माधुर्यभावे मधुरस्वरूपमैश्वर्यभावे भगवत्स्वरूपम् ॥
वात्सल्यभावे च सुबालरूपं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ ३॥
वृन्दावने नित्य-निकुञ्जमध्ये रसात्मकं रासविहारिरूपम् ।
ब्रह्मेशवृन्दारकवृन्दवन्द्यं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ ४॥
मोक्षप्रदानाद्धि मुकुन्दसंज्ञं ज्ञानक्रियाशक्तिबलादिपूर्णम् ॥
सञ्चिन्तनीयं शरणं प्रपन्नैः श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ ५॥
ध्येयं कुमारैः सुमनोभिराद्यं गेयं वचोभिर्मुनिनारदाद्यैः ॥
आचार्यवर्यैश्च समर्चनीयं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ ६॥
यत्पादपद्माश्रयणाद् विलीना भवन्ति जन्मादिविकारभावाः ।
तं सर्वपूज्यं परमं वरेण्यं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ ७॥
वाणी मुकुन्दस्य गुणान् गृणातु मनस्तु तस्याङ्घ्रियुगं वृणोतु ।
करौ सदा पूजनतत्परौ स्तामन्यानि चाङ्गानि फलीभवन्तु ॥ ८॥
-वासुदेवशरण उपाध्याय, प्राचार्य-
श्रीसर्वेश्वर संस्कृत महाविद्यालय
निम्बार्कतीर्थ-सलेमाबाद, जि० अजमेर (राज०)
इति वासुदेवशरण उपाध्यायविरचितं श्रीमुकुन्दवन्दनाष्टकम्
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीमुकुन्दवन्दनाष्टकम्
READ
श्रीमुकुन्दवन्दनाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
