श्रीमुरलीधरगोपालाष्टकम् PDF संस्कृत
Download PDF of Muralidharagopalashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीमुरलीधरगोपालाष्टकम् संस्कृत Lyrics
|| श्रीमुरलीधरगोपालाष्टकम् ||
नमामि गोपिकाकान्तं द्विभुजं मुरलीधरम् ।
शोणाधरं गिरिधरं भक्तदुःखहरं हरिम् ॥ १॥
सतोयमेघद्युतिगर्वहारिस्फुरद्युतिः स्मर्तृभयापहारि ।
कृष्णाय भूम्ने कमलावराय नमोऽस्तु तस्मै मुरलीधराय ॥ २॥
यो भूमिभारव्यपनुत्तयेऽत्र ब्रह्मादिदेवार्थित एव पुत्रः ।
बभूव भुव्यानकदुन्दुभेर्यो नमोऽस्तु तस्मै मुरलीधराय ॥ ३॥
अपाययत्स्तन्यमिषाद्विषं या तस्यै ददौ मात्रुचितां गतिं यः ।
कारुण्यसिन्धुर्निहितासुराय नमोऽस्तु तस्मै मुरलीधराय ॥ ४॥
गाश्चारयन्गोपकुमारयुक्तः सुरद्विषोऽहन्निजकार्यसक्तः ।
भक्तप्रियो यो दिविषिद्वराय नमोऽस्तु तस्मै मुरलीधराय ॥ ५॥
यद्वेणुशब्दश्रवणेन सद्यो ह्यचेतनं चेतनतां परं च ।
तथान्यभावं प्रगतं पराय नमोऽस्तु तस्मै मुरलीधराय ॥ ६॥
व्याजेन भर्तृत्वमितं विवर्णं त्यक्त्वा सती दग्धतनुर्बभूव ॥
वेणुर्यदोष्ठामृतभाक्पराय नमोऽस्तु तस्मै मुरलीधराय ॥ ७॥
गोपालाय नमस्तुभ्यमपराधान्क्षमस्व मे ।
कृपां कुरु दयासिन्धो सर्वान्कामान्प्रपूरय ॥ ८॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीमुरलीधरगोपालाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीमुरलीधरगोपालाष्टकम्
READ
श्रीमुरलीधरगोपालाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
