नामरत्नाख्यस्तोत्रम् PDF संस्कृत
Download PDF of Namaratnakhyastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
नामरत्नाख्यस्तोत्रम् संस्कृत Lyrics
|| नामरत्नाख्यस्तोत्रम् ||
यन्नामार्कोदयात्पापध्वान्तराशिः प्रशाम्यति ।
विकसन्ति हृदञ्जानि तन्नामानि सदाऽऽश्रये ॥ १॥
आनुष्टुभमिह च्छन्द ऋषिरग्निकुमारजः ।
सर्वशक्तिसमायुक्तो देवः श्रीवल्लभात्मजः ॥ २॥
विनियोगः समस्तेष्टसिद्ध्यर्थे विनिरूपितः ।
श्रीविठ्ठलः कृपासिन्धुर्भक्तवश्योऽतिसुन्दरः ॥ ३॥
कृष्णलीलारसाविष्टः श्रीमान्वल्लभनन्दनः ।
दुर्दृश्यो भक्तसन्दृश्यो भक्तिगम्यो भयापहः ॥ ४॥
अनन्यभक्तहृदयो दीनानाथैकसंश्रयः ।
राजीवलोचनो रासलीलारसमहोदधिः ॥ ५॥
धर्मसेतुर्भक्तिसेतुः सुखसेव्यो व्रजेश्वरः ।
भक्तशोकापहः शान्तः सर्वज्ञः सर्वकामदः ॥ ६॥
रुक्यिणीरमणः श्रीशो भक्तरत्नपरीक्षकः ।
भक्तरक्षैकदक्षः श्रीकृष्णभक्तिप्रवर्तकः ॥ ७॥
महासुरतिरस्कर्ता सर्वशास्त्रविदग्रणीः ।
कर्मजाड्यभिदुष्णांशुर्भक्तनेत्रसुधाकरः ॥ ८॥
महालक्ष्मीगर्भरत्नं कृष्णवर्त्मसमुद्भवः ।
भक्तचिन्तामणिर्भक्तिकल्पद्रुमनवाङ्कुरः ॥ ९॥
श्रीगोकुलकृतावासः कालिन्दीपुलिनप्रियः ।
गोवर्धनागमरतः प्रियवृन्दावनाचलः ॥ १०॥
गोवर्धनाद्रिमखकृन्महेन्द्रमदभित्प्रियः ।
कृष्णलीलैकसर्वस्वः श्रीभागवतभाववित् ॥ ११॥
पितृप्रवर्तितपथप्रचारसुविचारकः ।
व्रजेश्वरप्रीतिकर्ता तन्निमन्त्रणभोजनः ॥ १२॥
बाललीलादिसुप्रीतो गोपीसम्बन्धिसत्कथः ।
अतिगम्भीरतात्पर्यः कथनीयगुणाकरः ॥ १३॥
पितृवंशोदधिविभुः स्वानुरूपसुतप्रसूः ।
दिक्चक्रवर्ती सत्कीर्तिर्महोज्ज्वलचरित्रवान् ॥ १४॥
अनेकक्षितिपश्रेणीमूर्धाऽऽसिक्तपदाम्बुजः ।
विप्रदारिद्र्यदावाग्निर्भूदेवाग्निप्रपूजकः ॥ १५॥
गोब्राह्यणप्राणरक्षापरः सत्यपरायणः ।
प्रियश्रुतिपथः शश्वन्महामखकरः प्रभुः ॥ १६॥
कृष्णानुग्रहसंलभ्यो महापतितपावनः ।
अनेकमार्गसङ्क्लिष्टजीवस्वास्थ्यप्रदो महान् ॥ १७॥
नानाभ्रमनिराकर्ता भक्ताज्ञानभिदुत्तमः ।
महापुरुषसत्ख्यातिर्महापुरुषविग्रहः ॥ १८॥
दर्शनीयतमो वाग्मी मायावादनिरासकृत् ।
सदा प्रसन्नवदनो मुग्धस्थितमुखाम्बुजः ॥ १९॥
प्रेमार्द्रदृग्विशालाक्षः क्षितिमण्डलमण्डनः ।
त्रिजगद्व्यापिसत्कीर्तिर्धवलीकृतमेचकः ॥ २०॥
वाक्सुधाऽऽकृष्टभक्तान्तःकरणः शत्रुतापनः ।
भक्तसम्प्रार्थितकरो दासदासीप्सितप्रदः ॥ २१॥
अचिन्त्यमहिमाऽमेयो विस्मयास्पदविग्रहः ।
भक्तक्लेशासहः सर्वसहो भक्तकृते वशः ॥ २२॥
आचार्यरत्नं सर्वानुग्रहकृन्मन्त्रवित्तमः ।
सर्वस्वदानकुशलो गीतसङ्गीतसागरः ॥ २३॥
गोवर्धनाचलसखो गोपगोगोपिकाप्रियः ।
चिन्तितज्ञो महाबुद्धिर्जगद्वन्द्यपदाम्बुजः ॥ २४॥
जगदाश्चर्यरसकृत् सदा कृष्णकथाप्रियः ।
सुखोदर्ककृतिः सर्वसन्देहच्छेददक्षिणः ॥ २५॥
स्वपक्षरक्षणे दक्षः प्रतिपक्षभयङ्करः ।
गोपिकाविरहाविष्टः कृष्णात्मा स्वसमर्पकः ॥ २६॥
निवेदिभक्तसर्वस्वशरणाध्वप्रदर्शकः ।
श्रीकृष्णानुगृहीतैकप्रार्थनीयपदाम्बुजः ॥ २७॥
इमानि नामरत्नानि श्रीविठ्ठलपदाम्बुजम् ।
ध्यात्वा तदेकशरणो यः पठेत्स हरिं लभेत् ॥ २८॥
यद्यन्मनस्यभिध्यायेत्तत्तदाप्नोत्यसंशयम् ।
नानारत्नाभिधभिदं स्तोत्रं यः प्रपठेत्सुधीः ॥ २९॥
तदीयत्वं गृहाणाशु प्रार्थ्यमेतन्मम प्रभो ।
श्रीविठ्ठलपदाम्भोजमकरन्दजुषोऽनिशम् ॥ ३०॥
इति श्रीरघुनाथजीविरचितनामरत्नाख्यं स्तोत्रं समाप्तम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowनामरत्नाख्यस्तोत्रम्
READ
नामरत्नाख्यस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
