श्रीनरहर्यानन्दाचार्याष्टकम् PDF संस्कृत
Download PDF of Naraharyanandacharyashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीनरहर्यानन्दाचार्याष्टकम् संस्कृत Lyrics
|| श्रीनरहर्यानन्दाचार्याष्टकम् ||
चिन्तकानां च रामस्य शिरोमणिमनुत्तमम् ।
नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ १॥
आश्रितानां च लोकानां कल्याणकल्पपादपम् ।
नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ २॥
आनन्दभाष्यबोद्धारं भक्तिदानेन मुक्तिदम् ।
नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ३॥
रामानन्दीयधर्मस्य महाविस्तारकारकम् ।
नृहर्यानन्दमीडेऽहं द्वाराचार्य जगद्गुरुम् ॥ ४॥
अनन्तानन्दशिष्यं च तुलसीदाससद्गुरुम् ।
नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ५॥
योगीन्द्रसिद्धभूपालप्राज्ञवृन्दोपसेवितम् ।
नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ६॥
मन्त्रार्थानां त्रयाणां च शिक्षकं शान्तिरक्षकम् ।
नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ७॥
दत्त्वा च पञ्च संस्कारान् सद्भक्तियोग्यताप्रदम् ।
नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीनरहर्यानन्दाचार्याष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीनरहर्यानन्दाचार्याष्टकम्
READ
श्रीनरहर्यानन्दाचार्याष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
