श्रीनरसिंहभारतीपादाष्टकम् PDF संस्कृत
Download PDF of Narasimhabharatipadashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीनरसिंहभारतीपादाष्टकम् संस्कृत Lyrics
|| श्रीनरसिंहभारतीपादाष्टकम् ||
श्रीकीर्तिप्रतिभानां भवनं भविता यदीयपदनत्या
तान्दासीकृतभूपान्वन्दे नरसिंहभारतीपादान् ॥ १॥
चित्रं यन्मुखचन्द्रालोकाद्विकसन्ति चित्तपद्मानि ।
शिष्याणामनिशं तान्वन्दे नरसिंहभारतीपादान् ॥ २॥
सरसान्कवितासारान्वर्षत्यास्येषु नम्रजनतायाः ।
यदपाङ्गवारिदस्तान्वन्दे नरसिंहभारतीपादान् ॥ ३॥
एनःपर्वतभेदे शतकोटिधुरं दधाति यद्भक्तिः ।
पापाब्धिबाडवांस्तान्वन्दे नरसिंहभारतीपादान् ॥ ४॥
यद्वाक्श्रुतिर्नराणां भवसागरतारणे नौका ।
शीलितनिगमान्तांस्तान्वन्दे नरसिंहभारतीपादान् ॥ ५॥
त्रासितकामगजेन्द्रान्स्ववचश्चातुर्यतोषितार्यजनान् ।
क्रोधाहिवैनतेयान्वन्दे नरसिंहभारतीपादान् ॥ ६॥
वितरणधिक्कृतकर्णान्क्षमया निर्धूतमेदिनीगर्वान् ।
विरतिविधूतार्यशुकान्वन्दे नरसिंहभारतीपादान् ॥ ७॥
यत्पादाम्बुजभक्तिस्तत्त्वप्रासादगमननिःश्रेणी ।
तान्नतसुखाब्धिचन्द्रान्वन्दे नरसिंहभारतीपादान् ॥ ८॥
भूषितविभाण्डकात्मजजनिभूमीन्कीर्तिराजितदिगन्तान् ।
विश्वोत्तंसितपादान्वन्दे नरसिंहभारतीपादान् ॥ ९॥
स्तुतिमेनां गुरुकृपया रचितामवनावहर्निशं पठताम् ।
करुणानीरधयः स्युर्हृष्टा नरसिंहभारतीपादाः ॥ १०॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीनरसिंहभारतीपादाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीनरसिंहभारतीपादाष्टकम्
READ
श्रीनरसिंहभारतीपादाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
