नारायणस्तुतिः PDF संस्कृत
Download PDF of Narayanastutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
नारायणस्तुतिः संस्कृत Lyrics
|| नारायणस्तुतिः ||
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ १॥
यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैस्स्तवैः
वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ २॥
हे राम पुरुषोत्तम नरहरे नारायण केशव
गोविन्द गरुडध्वज गुणनिधे दामोदर माधव ।
हे कृष्ण कमलापते यदुपते सीतापते श्रीपते
वैकुण्ठाधिपते चराचरपते लक्ष्मीपते पाहि माम् ॥ ३॥
आदौ रामतपोवनादिगमनं हत्वा मृगङ्काचनं
वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् ।
बालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनं
पश्चाद्रावणकुम्भकर्णहननं एतद्धि रामायणम् ॥ ४॥
आदौ देवकिगर्भजननं गोपीगृहे वर्द्धनं
मायापूतनजीवितापहरणं गोवर्धनोद्धारणम् ।
कंसोच्छेदनकौरवादिहननं कुन्तीसुतापालनं
एतच्छ्रीमद्भागवतपुराणकथितं श्रीकृष्णलीलामृतम् ॥ ५॥
कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं
नासाग्रे वरमौक्तिकं करतले वेणुः करे कङ्कणम् ।
सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावलिः
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ ६॥
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुनादनपरं दिव्याङ्गभूषं भजे ॥ ७॥
सशङ्खचक्रं सकरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहार वक्षःस्थलकौस्तुभश्रियं
नमामि विष्णुं शिरसा चतुर्भुजम् ॥ ८॥
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव ॥ ९॥
रामरामेति रामेति रमे रामे मनोरमे ।
सहस्रनामतत्तुल्यं राम नाम वरानने ॥ १०॥
इति नारायणस्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowनारायणस्तुतिः
READ
नारायणस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
