नटराज प्रसाद स्तोत्र PDF हिन्दी
Download PDF of Nataraja Prasada Stotram Hindi
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ हिन्दी
नटराज प्रसाद स्तोत्र हिन्दी Lyrics
|| नटराज प्रसाद स्तोत्र ||
प्रत्यूहध्वान्तचण्डांशुः प्रत्यूहारण्यपावकः।
प्रत्यूहसिंहशरभः पातु नः पार्वतीसुतः।
चित्सभानायकं वन्दे चिन्ताधिकफलप्रदम्।
अपर्णास्वर्णकुम्भाभकुचाश्लिष्टकलेवरम्।
विराड्ढृदयपद्मस्थत्रिकोणे शिवया सह।
स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।
श्रुतिस्तम्भान्तरेचक्रयुग्मे गिरिजया सह ।
स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।
शिवकामीकुचाम्भोजसव्यभागविराजितः।
स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।
करस्थडमरुध्वानपरिष्कृतरवागमः।
स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।
नारदब्रह्मगोविन्दवीणातालमृदङ्गकैः।
स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।
जैमिनिव्याघ्रपाच्छेषस्तु तिस्मेरमुखाम्बुजः।
स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।
तिल्वविप्रैस्त्रयीमार्गपूजिताङ्घ्रिसरोरुहः।
स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।
मन्त्रनूपुरपत्पद्मझणज्झणितदिन्द्मुखः।
स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।
सम्पत्प्रदमिदं स्तोत्रं प्रातरुत्थाय यः पठेत्।
अचलां श्रियमाप्नोति नटराजप्रसादतः।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowनटराज प्रसाद स्तोत्र

READ
नटराज प्रसाद स्तोत्र
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS