श्रीनटेशस्तुतिः PDF संस्कृत
Download PDF of Nateshastuti Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्रीनटेशस्तुतिः संस्कृत Lyrics
|| श्रीनटेशस्तुतिः ||
श्री भृङ्गिमहर्षिप्रणीता
श्रीकैलासे प्रदोषे नटति पुरहरे देवदैत्यादिवन्द्ये
पश्यन्त्यां शैलपुत्र्यां नटनमतिमुदा स्वर्वधूसंवृतायाम् ।
ब्रह्मा तालं च वेणुं कलयति मधवा मद्दलं चक्रपाणिः
धित्तान्धितान्धिमित्तां धिमिधिमिधिमितान्धिन्धिमी धिन्धिमीति ॥ १॥
नन्दी मद्दलवाद्यभृद्वितनुते तान्तां तथित्तामिति
ब्रह्मा तालरवं तकृत्तकृतत त्तत्तत्तकृत्तामिति ।
गाने तुम्बुरुनारदौ तनननातानाननातानना
शम्भौ नृत्यति स्वर्णसंसदि सदा झञ्झञ्झणञ्झामिति ॥ २॥
चिदम्बरसभायान्तु नृत्तं दृष्ट्वा पिनाकिनः ।
बहुधाऽऽनम्य भगवान् भृङ्गी तुष्टाव शङ्करम् ॥ ३॥
क्रूरं दुष्टतमं स्वधर्मविरमं भ्रष्टं शठं निष्ठुरं
निर्लज्जं कृपणं कृतघ्नमशुचिं बह्वाशनं हिंसकम् ।
आशापाशशतप्रवर्तिमनसं दुष्कीर्तिभाजं जडं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४॥
स्वप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितं
ध्यानध्येयविचारणाविरहितं तुच्छं सदोच्छृङ्खलम् ।
दारिद्र्यास्पदमात्मवैरिवशगं तापत्रयस्यास्पदं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ५॥
कर्मादिस्तुतिकारणं परमिमं निन्दाकरं निन्दितं
लुण्टाकं पतितं विपर्यय गतस्वान्तं सदा याचकम् ।
कैवल्यापगतं सुखारिनिचयं सर्वप्रदासञ्चयं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ६॥
सत्यत्यागदयाक्षमाशमदमाद्यर्थानभिज्ञानकं
देवब्राह्मण गोप्रजातिथिपितृज्ञानात्मकानर्चकम् ।
विश्वस्तेष्वपकारवञ्चनपरैर्मैत्रीपरं दुर्जयं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ७॥
विण्मूत्रक्रिमिमांसशोणितमयं मेदोऽस्थिमज्जात्मकं
दुर्गन्धैकनिधिं जरापरिगतं वातादिदोषास्पदम् ।
दृष्ट्वापि स्वकलेवरं कृशमयं तत्रापि रक्तं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ८॥
किं वाचा बहुविस्तरेण भगवन् मत्सन्निभो भूतले
भूतो नास्ति च नो भविष्यति पुमान् दौर्भाग्यचूडामणिः ।
तस्मादीदृशमात्म वैरिवशगं तापत्रयस्यास्पदं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ९॥
शापेर्ष्यामदलोभमोहकरणैः किं वाऽधिकारैर्धनैः
किं दारैः स्वसुखैकसाधनतया शुश्रूषमाणैः पतीन् ।
छायामात्रफलैरगारवलयैः किं भूश्रियोवाञ्छया
सर्वं भ्रान्तिविजृम्भितं हृदय मे मुक्त्यै शिवं भावय ॥ १०॥
शार्दूलाङ्घ्रिपतञ्जलिप्रभृतिभिः साकं मुनीन्द्रैर्गणैः
शैलादिप्रमथैः हरीन्द्रविबुधैश्चाहं सभायां च ते ।
ब्रह्मानन्द निदानताण्डवसुधास्वादी भवेयं विभो
नान्यद्वाञ्छितमस्ति मे नटपते भूयो नमस्ते नमः ॥ ११॥
भृङ्गिणा रचितामेतां स्तुतिं नित्यं पठन्ति ये ।
इह भुक्त्वाऽखिलान् भोगानन्ते यान्ति परं पदम् ॥ १२॥
इति श्री भृङ्गिमहर्षिप्रणीता श्रीनटेशस्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीनटेशस्तुतिः
READ
श्रीनटेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
