श्रीनीलकण्ठ चिन्तनाष्टकम् PDF संस्कृत
Download PDF of Nilakanthachintanashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीनीलकण्ठ चिन्तनाष्टकम् संस्कृत Lyrics
|| श्रीनीलकण्ठ चिन्तनाष्टकम् ||
(उपजाति वृत्तम्)
ब्राह्मे मुहूर्ते शयनं विहाय
निजस्वरूपं हृदि चिन्तयित्वा ।
स्नातं विशुद्धं प्रचुराभिरद्भिः
श्रीनीलकण्ठ हृदि चिन्तयामि ॥ १॥
श्वेतं च सूक्ष्मं परिधाय वासः
सितं द्वितीयं वसनं वसित्वा ।
चतुष्क-पीठाद् द्रुतमुत्तरन्तं
श्रीनीलकण्ठं हृदि चिन्तयामि ॥ २॥
आशूपविश्या-मलनैजपीठे
विधाय सन्नैष्ठिक-कर्म नित्यम् ।
नारायणं मालिकया स्मरन्तं
श्रीनीलकण्ठं हृदि चिन्तयामि ॥ ३॥
सुगन्धिना केसर-चन्दनेन
सन्मल्लिका-चम्पकपुष्पहारैः ।
सम्पूज्यमानं निजभक्तवर्यैः
श्रीनीलकण्ठं हृदि चिन्तयामि ॥ ४॥
कर्णे दधानं कुसुमावतंसं
शिरःपटे कौसुम-शेखरालिम् ।
कण्ठे च नानाविध-पुष्पहारान्
श्रीनीलकण्ठं हृदि चिन्तयामि ॥ ५॥
भक्ष्यैश्च भोज्यैः सह लेह्यचोष्यै-
र्द्रष्ट्वा पुरा भोजनभाजनं च ।
पूरी-मदन्तं च ससूपभक्तं
श्रीनीलकण्ठं हृदि चिन्तयामि ॥ ६॥
भक्तैरनेकैर्मुनिभिर्गृहस्थैर्
वृत्तं सभायां भगणैरिवेन्दुम् ।
सहास-वक्त्राम्बुज-चारुनेत्रं
श्रीनीलकण्ठं हृदि चिन्तयामि ॥ ७॥
निःसीम-कारुण्य-सुधामयेन
विलोकनेनातिमुदा स्वभक्तम् ।
बद्धाञ्जलिं दीनमवेक्षमाणं
श्रीनीलकण्ठं हृदि चिन्तयामि ॥ ८॥
श्रीदीनानाथभट्टविरचितं श्रीनीलकण्ठचिन्तनाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीनीलकण्ठ चिन्तनाष्टकम्
READ
श्रीनीलकण्ठ चिन्तनाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
