श्रीनिम्बार्कमहिमाष्टकम् PDF संस्कृत
Download PDF of Nimbarkamahimashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीनिम्बार्कमहिमाष्टकम् संस्कृत Lyrics
|| श्रीनिम्बार्कमहिमाष्टकम् ||
राधामुकुन्दाऽङ्घ्रिसरोजभृङ्गं भक्तेष्टवाञ्छातरुमाप्त सेव्यम् ।
नवाम्बुदश्यामलगञ्जुलाङ्गं निम्बार्कमाचार्यमनुस्मरामि ॥ १॥
आचर्यवर्यं हरिचक्रराजं भवाऽब्धिसेतुं भयमुक्तिहेतुम् ।
गिरीन्द्रगोवर्धनराजमानं निम्बार्कदेवं हृदि भावयामि ॥ २॥
सुमन्दमेधारतिदानशीलं निकुञ्जकुञ्जान्तरनित्यवासम् ।
श्रीकृष्णलीलारसपानमत्तं निम्बार्क-देवं मनसा स्मरामि ॥ ३॥
पाखण्डकण्डूशमनप्रवीणं श्रुत्यर्थ-सम्यक्पथबोधशीलम् ।
गोविन्द-भक्त्या-रसवृष्टिकारमाचार्यनिम्बार्कमिहस्मरामि ॥ ४॥
अनन्तकारुण्यगुणैकधाम प्रशान्तचित्तं प्रचुरप्रभावम् ।
प्रेमातिसान्द्रं परिपूर्णकामं निम्बार्कमीडे रससन्निधानम् ॥ ५॥
वेदान्त-गीताकृतदिव्यभाष्यं स्वाभाविकं भिन्नमभिन्नरूपम् ।
संस्थापितं वै निजवादमाद्यं तं निम्बभानुं शिरसा नमामि ॥ ६॥
सर्वेश्वराराधनदत्तचेतः देवर्षिवर्येण च लब्धदीक्षः ।
श्रीधामवृन्दावनकुञ्जसेवी निम्बार्कवर्यो खलु मे गतिः स्यात् ॥ ७॥
यतिस्वरूपाय पितामहाय व्यालोकितो निम्बतरौ दिनेशः ।
तं भानुकोटिप्रभमाशुरेव निम्बार्कमन्तः सततं स्मरामि ॥ ८॥
स्तोत्रं पुण्यकरं चारु निम्बार्कमहिमाष्टकम् ।
राधासर्वेश्वराख्येन शरणान्तेन निर्मितम् ॥ ९॥
इति अनन्त श्रीविभूषित जगद्गुरु श्रीनिम्बार्काचार्यपीठाधीश्वर
श्री “श्रीजी” श्रीराधासर्वेश्वरशरणदेवाचार्यजी महाराज
प्रणीतं श्रीनिम्बार्कमहिमाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीनिम्बार्कमहिमाष्टकम्
READ
श्रीनिम्बार्कमहिमाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
