|| श्रीनिम्बार्कसहस्रनामस्तोत्रम् ||
श्रीसर्वेश्वरो जयति
॥ श्रीभगवन्निम्बार्काचार्याय नमः ॥
उपोद्घातः-
अनिरुद्धः सदा त्राता निम्बार्कः पुरुषार्थवृट् ।
कृपाचारसुधावृष्ट्या निगमौघ-प्रवर्तकः ॥ १॥
त्रेतायुगे गत-प्राये नैमिषारण्य-वासिनः ।
आराधनाय कृष्णस्य विप्रा गौरमुखादयः ॥ २॥
बहुकालं तपस्तप्त्वा नारायण-परायणाः ।
ध्रुवमध्वरमाराध्यारेभिरे ते मखान्तरम् ॥ ३॥
नीयमाने मखे तस्मिन् विघ्नदा बहवोऽभवन् ।
द्वेषिभिर्ध्वंसिते यज्ञे दैत्यैः सत्कदन-प्रियैः ॥ ४॥
तपोयाग-समावृत्या ऋषयः कृष्णयाजिनः ।
मरुप्रस्थपुरीयास्ते ब्रह्माणं शरणं ययुः ॥ ५॥ (मरुप्रस्थपुरीयां)
गत्वा योगबलेनैवमुपद्रवं न्यवेदयन् ।
चतुर्मुखो द्विजाध्यक्षो निवेदितमुपद्रवम् ॥ ६॥
चिन्तयन् मनसा कृष्णं समाधौ शरणं ययौ ।
विष्णु-प्रस्थापितं चक्रं हृयोतं(१) कमलोद्भवः ॥ ७॥
(१ “हृदि द्योतः” (प्रकाशः) यस्य तत् ।
“प्रकाशो द्योत आतपः” इत्यमरः (१/३/३४))
पश्यन्नुन्मील्याक्षि बहिस्तदवस्थं ददर्श ह ।
प्रेषयामास विप्रांस्तान् सिद्धार्थान् पुनरप्यनु ॥ ८॥
स्वकं यागं समासाद्य त्वरा-वारित-विघ्नकम् ।
नेमि-स्पर्श-समृद्धञ्चवर्तयाञ्चक्रिरे पुनः ॥ ९॥
कृतज्ञा निष्क्रियां(३) कर्तुं स्तावयामासुराह्-वयैः(४) ।
(३ निस्तारं कृतज्ञता प्रकाशनमित्यर्थः ।)
(४ नामभिः इति पाठान्तरम् ।)
चक्रं सुदर्शनं साक्षाद्देदीप्यमानमात्मवत् ॥ १०॥
स्तवाय प्रेरितो विप्रैर्गौरमुखो मुनीश्वरः ।
निम्बार्काख्या-सहस्रेण संस्तोतुमुपचक्रमे ॥११॥
सुदर्शन ! महाबाहो ! सूर्यकोटि-समप्रभ ! ।
अज्ञान-तिमिरान्धानां विष्णोर्मार्गं प्रदर्शय ॥ १२॥
इति सम्प्रार्थितः पित्रा ब्रह्मणा हितकारिणा ।
अज्ञान-तिमिरान्धानां सम्प्रदाय-सुदुष्टये ॥ १३॥
तव नाम-सहस्रेण स्तोतुमिच्छामि नित्यदा ।
पालितानां सनाथानां तदभिधातुमर्हसि ॥ १४॥
एवं संप्रार्थितो विप्रैः(१) सुदर्शन उवाच तान्(२) । (विप्रा, उवाच ह)
निम्बार्को ह्यनिरुद्धो वै निम्बार्को वै चतुःसनः ॥ १५॥
निम्बार्को नारदश्चैव निम्बार्कोऽहं सुदर्शनः ।
निम्बार्को वैष्णवाः सर्वे सम्प्रदायानुवर्तिनः ॥ १६॥
इति बुद्धया समाज्ञेयं मम नाम-सहस्रकम् ।
गुह्याद् गुह्यतरं दिव्यं राधाकृष्णपद-प्रदम् ॥ १७॥
ॐ अस्य श्रीमन्निम्बार्क-सहस्राख्य-स्तवस्य हि । (सहस्राख्य नमोऽस्तु ते)
ऋषिर्गौरमुखश्च्छन्दोऽनुष्टुप् निम्बार्क एव तु ॥ १८॥
देवः सुदर्शनो बीजं शक्तिः पुराणमेव च ।
विततं कीलकं चैव पवित्रं कवचं तथा ॥ १९॥
चक्रमस्त्रं मनुस्त्वेव षडक्षर उदाहृतः ।
द्व्यनन्तर-नराकारमिति ध्यानं प्रकीर्तितम् ॥ २०॥
निम्बार्क-प्रीत्यर्थे जपे विनियोगः समीरितः ।
इति सङ्कल्प्य चर्ष्यादीन् स्वस्वाङ्गेषु क्रमान्न्यसेत् ॥ २१॥
शीर्षास्य-हृद्-गुह्य-पाद-सर्वाङ्ग-सन्धि-दिक्षु च ।
हार्दे बाह्याभ्यन्तरयोश्चतुर्थ्या च नमोऽन्तकाः ॥ २२॥
नमो निम्बार्कायोमिति मन्त्रं षडक्षरं विदुः ।
अङ्गली-तलपृष्ठेषु ङे-द्विवच-नमोऽन्तिषु ॥ २३॥
क्रमान्न्यसे देकैकशो द्वितीयान्तान् षडक्षरान् ।
नम आद्यन्तेष्वङ्गेषु द्वितीयान्तान् षडक्षरान् ॥ २४॥
हृदयं शिरः शिखा कवच-नेत्रत्रयाऽस्त्रतः ।
नमः स्वाहा वषट् हुं वौषट् फडेतान् क्रमान्न्यसेत् ॥ २५॥
ध्यानम् –
कालचक्रमयं ध्यायेन्निम्बार्क-गुरुमीश्वरम् ।
द्वादश-मास-तीक्ष्णारं कालमूर्तिधरं विभुम् ॥ २६॥
चातुर्मास्य-त्रयाकार-वलयत्रय-भासितम् ।
ऋतुरूपं च षट्कोणमयन-द्वय-राजितम् ॥ २७॥
द्व्यनन्तर-नराकारं स्वस्तिकासन-संस्थितम् ।
तप्त-मुद्रा-धरं दिव्यमुपदिशन्तमात्मानम् ॥ २८॥
देदीप्यमानवपुषं तप्त-हाटक-सन्निभम् ।
शुक्लोत्तरीयमावासं पञ्च-संस्कार-संयुतम् ॥ २९॥
तुलसीमालया युक्तं सततं कण्ठलग्नया ।
पुण्डरीक-विशालाक्षं सूर्यकोटि-ललाटकम् ॥ ३०॥
संहृष्टं-पुष्ट-सर्वाङ्गं धृत-द्वादश-पुण्ड्रकम् ।
आजानु-भुज मृज्वङ्गं प्रसन्न-मुखमण्डलम् ॥ ३१॥ (आजानु-भुज संशुद्धम्)
नैसैर्गिक-मन्द-हास्यं कृपापाङ्ग-तरङ्गितम् । (कृपापाङ्गतरङ्गिनम्)
तेजोमयं प्रकाशं तं ध्यातं हृदय-पङ्कजे ॥ ३२॥ (तेजोमयं कृपासन्तम् तं ध्यातुर्हृदयपङ्कजम्)
अथ स्तोत्रम्–
ॐ श्रीकृष्णहंसोऽनिरुद्धो निम्बार्कः पुरुषार्थवृट् ।
सच्चिदानन्दात्मा शुद्धो निरुपाधिः सदर्थकृत् ॥ ३३॥
आधारो निगमोत्पादी निजैतिह्य-प्रवर्तकः ।
आद्याचार्यः सदाचार्यो मोक्षाधिकार-धारकः ॥ ३४॥
सनकः सनत्कुमारः सनन्दनः सनातनः ।
चतुस्सनश्चतुर्मूर्तिः कुमारः पञ्चहायनः ॥ ३५॥
असंसृतिः सारोद्धारी सदैक-रस-रूप-धृक्
कृत-मोक्षाधिकाराढ्यः कृत-स्मरण-दायकः ॥ ३६॥
कृत-संसार-विध्वंसो ब्रह्माविर्भूतिरव्ययः ।
ब्रह्मचर्य्याश्रमाधारी नैष्ठिक-ब्रह्मचर्य्यवान् ॥ ३७॥
ब्रह्मभूर्मानसो बालः सुसिद्धः संविदाकरः ।
ऊर्ध्वरेता ब्रह्मचारी निष्क्रियः समदर्शनः ॥ ३८॥
ब्रह्मज्ञो ब्रह्मदृग्ब्राह्मो ब्राह्मणो ब्रह्मवित्तमः ।
निष्कलोऽविक्रियोविद्वान् सर्वज्ञः सर्वतत्ववित् ॥ ३९॥
अनिरुद्धोपदिष्टात्मा शान्तो दान्तो हरिप्रियः ।
भक्ति-रहस्योपदेष्टा वैष्णव-धर्म-वित्तमः ॥ ४०॥
अनादिरादिसन्धाता धर्मज्ञो धर्मतत्त्ववित् ।
अर्थज्ञः संशयच्छेत्ता कृत-ध्यानोपदेशकः ॥ ४१॥
विश्व-गुरुर्विश्वतारो विश्वाश्रयः समस्तवित् ।
भावज्ञोऽनुभवो भावी प्रेमानन्दरसाश्रयः ॥ ४२॥
मोक्षधर्मा विमोक्षज्ञो मोक्ष-क्रिया-समुत्सुकः ।
अनिरुद्धो पदिष्टार्थ-प्रवृत्ति-सतताग्रहः ॥ ४३॥
नारद-समुपदेष्टा नारद-हार्द-दायकः ।
आचार्य-शेखरः स्वामी प्रेममूर्तिः कृपानिधिः ॥ ४४॥
सर्वाश्रमाङ्गसंमिश्रो भिक्षुर्भिक्षाशनो यतिः ।
योगी योगेश्वरो योग्यो भक्तियोग-प्रवर्तकः ॥ ४५॥
महावीरो महावर्चा अनिरुद्धोक्त मन्त्रवित् ।
वेदज्ञो वेदविख्यातो वेदहार्दविदांवरः ॥ ४६॥
वेदानुसारी वेदार्थो वेद-वेदाङ्ग-पारगः ।
वेद-विधान-सारज्ञो वेदान्तार्थ-प्रदर्शकः ॥ ४७॥
वेदेङ्गित-रसावादी वेदान्त-हार्द्द-सारवित् ।
निगमागम-सारज्ञः सच्छास्त्रार्थ-प्रवर्तकः ॥ ४८॥ (सर्व-शास्त्र-प्रवर्तकः)
वेद-तात्पर्य-निष्णातो वेदान्तानुविधायकः ।
गुरुसेवी गुरूपासी गुरुधर्मोपदेशकः ॥ ४९॥
वैकुण्ठ-दर्शकः सिद्धो वैकुण्ठान्तर्गतः शुभः ।
पार्षदेशावतः श्रीमान् कक्षान्तसमवस्थितः ॥ ५०॥
पार्षद-क्षुभितः शक्तः पार्षद-शाप-दायकः ।
विष्णुद्रष्टा विष्णुस्तोता विष्णुपादप्रणामकृत् ॥ ५१॥
श्रीकृष्णाङ्घ्रि-प्रिया-गन्ध-परिशिक्त-रुडग्निकः । (तरुग्निकः)
तुलसीगन्धहृद्धारी बहुकालतपोऽन्वितः ॥ ५२॥
तुलसीवृन्दसन्धारस्तुलसी-मालिकाकरः ।
वृन्दावन-समाविष्टा वृन्दायूथचरी सखी ॥ ५३॥
जटिला जंजपूका(१) कुधृताशा कृष्णवल्लभा ।
राधाकृष्ण-रहस्यज्ञा राधाकृष्ण-पदाश्रया ॥ ५४॥
(१ “यङन्ताज्जपधातोः यजजपदशां यङः (३/२/१६६) इति सूत्रेण ऊकः । ततश्च टाप् ।)
देवर्षिर्नारदः श्रीमानवधूत सुविग्रहः ।
ब्रह्मज्ञो ब्रह्मशापोक्त उदासीनो निराश्रयः ॥ ५५॥
कुमारोपकृतज्ञानः कुमारानुक्रियाधरः ।
कुमारैतिह्यसन्ध्याता कुमारानुक्रियाकरः ॥ ५६॥
दक्षपुत्रः समुन्मोक्ता मुनीशो वाग्विदांवरः ।
वीणापाणिर्महाभक्तो भक्तः-राजः सदुत्तमः ॥ ५७॥
कृष्णार्थ कर्मसंस्कारी त्रेता-शुभ-क्रियाकरः ।
कुमारादिष्ट-धर्मज्ञो गुरूक्तरीति-धारकः ॥ ५८॥
कृष्णर्पितमखः साधुः साधुधर्मपरायणः ।
भक्तिरहस्यसंसक्तो रसशास्त्र-प्रवर्तकः ॥ ५९॥
रसज्ञो रसिको रासी रसिकराड् रसायनः ।
निम्बादित्योपदेष्टा श्रीनिम्बादित्यरसप्रदः ॥ ६०॥
निम्बादित्यानुकम्पाम्भो निम्बादित्यहृदाश्रयः ।
व्यासात्म-हितोपदेष्टा व्यासचित्त-प्रतोषकः ॥ ६१॥
व्यासभाग्यो व्यासगुरुर्व्यासदेव सुपूजितः ।
व्यास-संताप-संहर्त्ता व्यासतत्त्वोपदेशकः ॥ ६२॥
कुमार-हार्द-संवेत्ता कुमारादेश-धारकः ।
कुमारमार्ग-संनिष्ठः कुमार-शिष्य-शेखरः ॥ ६३॥
वृन्दानुकम्पिता मुग्धा वृन्दायूथचरी शुभा ।
राधाकृष्णानुवृत्तिज्ञा राधाकृष्णानुरञ्जनी ॥ ६४॥
रस-गान-परा सौम्या सुधासारानुगायिनी ।
रसिका नायिका रम्या वेणु-वाद्य-विशारदा ॥ ६५॥
गुणवती गुणातीता गुण-ग्रामनिवासिनी ।
सुदर्शनो महाबाहुः सूर्यकोटि-सम-प्रभः ॥ ६६॥
विशुद्धात्माऽखिलाधारो ह्यज्ञानतिमिरान्ध्यनुत् ।
विश्वाधारोऽखिलाभासो विश्वरूप-सुधाकरः ॥ ६७॥ (विश्वरूपप्रकाशवान्)
विश्वभावी जगद्बीजं स्वप्रकाशः प्रकाशकृत् । (विश्वभावन)
शोभनो ज्योतिराकारो ज्योतीरूपः प्रकाशवान् ॥ ६८॥
दर्शनो दर्शको दर्शी दृश्यादृश्यस्वरूपकः ।
अनादिरादिरात्माऽन्तर्हार्दभूतोऽखिलाकरः ॥ ६९॥
जगद्धाता जगद्दर्शी जगज्ज्योतिस्तमोनुदः ।
अन्तारूपो मनोवृत्ति सङ्कल्पः सर्वसाधकः ॥ ७०॥
सुन्दरः सुन्दराकारः सुन्दरान्तः श्रियाचरः । (सुन्दरान्तः क्रियावरः)
शुभाधारः शुभाभासी शुभदायी शुभंकरः ॥ ७१॥
सौभाग्य-भग-सम्पन्नः सौभाग्यदो भगान्वितः ।
आदिहेतुर् जगद्धेतुर् ज्ञानहेतुर् मनोभवः ॥ ७२॥
(or आदिहेतुर्जगद्धेतुर्ज्ञानहेतुर्मनोभवः)
आत्माधारोऽखिलाभासो धराधारो धुरन्धरः ।
महर्षिमहानुभावो महानुभाव-भासितः ॥ ७३॥
सदविता सदाधारः सदाकारः सदाश्रयः ।
वैष्णवो विष्णुसेवीशो विष्णुभाग्वैष्णवोत्तमः ॥ ७४॥
आचार्यमन्त्रसन्धाता मन्त्र-व्याख्या-विशारदः ।
उपाङ्गवर्ग-संसक्तः शयस्थः शयशोभितः ॥ ७५॥
मुनिर्मननशीलेन्द्रो मुनिवर्थ्यो मुनीश्वरः ।
ज्येष्ठः श्रेष्ठः प्रजापालः प्रतापीशः प्रतापवान् ॥ ७६॥
करस्थितः शान्तिमूर्तिः पार्षदः पार्षदेश्वरः । (विष्णुकरस्थितः शान्तः पार्षदः)
वैहायसो नभोगन्ता खेचरेन्द्रो विहङ्गमः ॥ ७७॥
अविहतगतिर्भर्ग–वत्सरापत्य –गर्भपत् ।
लोकपो लोक-संभेत्ता लोकालोकानुदर्शनः ॥ ७८॥
भक्तपो भक्तराजेन्द्रो भक्तप्रभाववर्द्धनः ।
भावज्ञो भावनीयात्मा भक्तभावानुवर्तनः ॥ ७९॥
चक्रं चमत्क्रियायुक्तं चमत्कृतिहृतेक्षणम् ।
कालचक्रं महाचक्रं चक्रवालं सुमण्डलम् ॥ ८०॥ (महाचक्रं बालं च मुखमण्डलम्)
प्रचण्डं चण्डदोर्दण्डं पाषण्ड-खड-दारकम्(१) ।
(१) पाषण्डाः दुःशास्त्रवर्त्तिनो बौद्धादिक्षपणकाः
(पाषण्डाः “सर्वलिङ्गिनः” इत्यमरः २/७/४५)
तैः कृतो यः खडः भेदनम् । (खड भेदने चरादिः
खाडयति-अच्) तस्य दारकं भेदकं इत्यर्थः ।)
लोकद्वारं महोदारं ज्योतिष्मच्च प्रभाकरम् ॥ ८१॥
उद्धृतासुरमर्चिष्मत् सहस्रचरणं चरम् ।
पवित्रं विततं प्राणं प्रतत्पुराणमुत्तमम् ॥ ८२॥ (विततं त्राणं)
सत्सोमधारसन्दोहं दुष्ट-मोह-दुरात्मभित् ।
प्रसिद्धं वाङ्मयं शुद्धमङ्कनमरिलक्षणम् ॥ ८३॥
वेदगीतं विदाधारं ब्राह्मणं पापनाशनम् ।
भ्राजमानं जगद्व्याप्यं जगद्विज्ञानभास्करम् ॥ ८४॥
साधुचन्द्रमसच्चण्डं भक्तमण्डं भयापहम् ।
पापकर्षं दुराधर्षमसदमर्षमिष्टिपम् ॥ ८५॥
अङ्गुलिस्थोऽनिरुद्धात्मा सङ्कल्पादिष्ट ईश्वरः ।
भागवतो हरिप्रेष्यो भागवतार्थतत्त्ववित् ॥ ८६॥
कृष्णसङ्कल्पमर्मज्ञो ब्रह्म-समाधि-दीपकः ।
ब्रह्मार्थितः प्रजादिष्टः सब्राह्मणो मखागतः ॥ ८७॥
मख-ध्वंसक-संहर्ता मखकार्याभिवन्दितः ।
हविर्द्धानो हविर्द्धाता हविःसन्धान-धारकः ॥ ८८॥
यज्ञपालो हविर्वर्द्धी नष्टयज्ञ-समुद्धरः ।
(यज्ञमादी हविर्बद्धाऽष्टयज्ञ-समुद्धरः ।)
शुद्धिकारी प्रशुद्धात्मा नेम्या(१) निजो निजांशदः ॥ ८९॥
(१ नेम्या चक्रप्रान्तरूपया निजो नित्य इत्यर्थः ।
“पुल्लिङ्गस्तिनिशे नेमिश्चक्रप्रान्ते स्त्रियामपि” इति रुद्रः ।
“स्वके नित्ये निजं त्रिषु” इत्यमरः (३/३/३२)
यद्वा नेम्या चक्रप्रान्तरूपया निजः पवित्रः
पोषको वा (णिजिर शौच-पोषणयोः+कः))
यज्ञपाता यज्ञभर्ता नैमिनिजः प्रयोजकः । (यज्ञपाता यज्ञकर्ता)
विप्रस्तुतो द्विजश्लाघ्यो विप्रसत्राभिरक्षकः ॥ ९०॥
अर्य्यन्तर्नरशरीरः प्रार्थित ऋषिरूपधृक् ।
ऋषिवर्य्य ऋषीशानो ब्रह्मर्षिर् ऋषिपालकः ॥ ९१॥
ब्रह्मवेत्ता सुब्रह्मज्ञो ब्रह्मण्यो ब्राह्मणार्थकृत् ।
जयन्तीनन्दनः श्रीमान् विप्राशा-परिपूरकः ॥ ९२॥
यज्ञ-निघ्न-तमोध्वंसी सवित्रात्मा सदर्थवृट् । (पवित्रात्मा)
गौरमुख-गृहीताङ्घ्री रक्षार्थ-धृत-विग्रहः ॥ ९३॥
गोप्ता सद्धर्म-संस्थापी मानसो धर्म्म आत्मजः ।
भूतानुकम्पी(२) दयाब्धिः कृपालुर्दुष्कृदर्दनः(३) ॥ ९४॥ (सन्तानुकम्पी, दुष्टमर्दनः)
ईशसृष्टः शस्त्रमस्त्रं विसर्ज्यो ब्रह्मरूपधृक् ।
मनोमयो मनोभासो मनःसङ्कल्प इष्टदः ॥ ९५॥
नैमिषाख्यानसंवर्ती नैमिषाख्यानिदानकः ।
नैमिषारण्य-संत्राता नैमिषारण्यपावनः ॥ ९६॥
नैमिषारण्य-विख्यातो नैमिषखण्डसंस्तुतः ।
सनम्रो नारदद्रष्टा नारदशिष्य इष्टभाक् ॥ ९७॥
नारदादिष्ट-संधर्त्ता नारद-हार्दमर्मवित् ।
तीर्थस्नायी पवित्रात्मा निसर्गदो निसर्गजित् ॥ ९८॥
वरो वरिष्ठो वरीयान् वरदाता वरार्चितः ।
महान् महिष्ठो महीयान् महत्तरो महत्तमः ॥ ९९॥
दोषहर्ता गुणद्रष्टा विपरीत-मुदावहः ।
मखहर्त्ता मखत्राता मख-धर्म-समर्पकः ॥ १००॥
अमानी मानदः क्षन्ता मान्योऽभिमानवर्जितः ।
सही सहिष्णु सहीयान् सहिष्ठः सङ्ग-वर्जकः ॥ १०१॥
धीरः प्रवीरो गम्भीरः शुण्डीरो धृत-धैर्यकः ।
सहायी व्यवसायज्ञो व्यवसायी सहायदः ॥ १०२॥
गुरुर्गरिष्ठो गरीयान् गुरुतरो गुरूतमः ।
मार्गी मार्गानुगो मार्गोपदेष्टा मार्गवित्तमः ॥ १०३॥
अजितो दिग्जयी जिष्णु सर्वजेता ककुब्जयी ।
मदनो मोददो मोदी मोदको मुक्त-शुद्धभुक् ॥ १०४॥ (मुक्ति ऋद्धकः)
पूजितः पूजकः पूजी पूजावित् पूज्यभाग्ध्रुवः ।
ब्रह्मानन्दो निमानन्दो नियमानन्द इष्टदः ॥ १०५॥
सर्वाश्चर्यमयो धीमान् ब्राणावतेय आरुणः । (ब्रह्मणा तप आरुणः)
अगस्त्यः शोक-संशोध आरुणिररुणोऽरुणिः ॥ १०६॥
ब्रह्मात्मजो ह्यजानन्दो नेमानन्दो नियामकः ।
कविः कवीश्वरः काव्यकर्त्ता काव्यविधायकः ॥ १०७॥
चतुर्व्यूहश्चतुर्मूर्तिश्चतूरूपश्चतुस्तनुः ।
निम्बो निम्बी सुनिम्बादो निम्बभोजी सुनिम्बभुक् ॥ १०८॥
वाग्मी वाग्मीश्वरो वक्ता वाचस्पतिरुदारधीः ।
तर्त्ता तारयिता तीर्णस्तरदद्रिवहित्रवाट् ॥ १०९॥
पारः पारयिताऽपारः पारद-मूर्त्तिकृत् परः ।
पुर-पूरयिता पूरः पूर्णबोधः पुराणभृत् ॥ ११०॥
सम्पूर्णः पूरक पूरी पुरीस्थः स्वपुरीश्वरः ।
सुमार्गो मार्गदो मार्गी मार्गानुवृत्तिदः सुधीः ॥ १११॥
पर्वतः पर्वतोद्धर्त्ता गिरिरूप्यद्रितारकः ।
वंशी वंशधरो वंशो वंशसन्धिकरो विभुः ॥ ११२॥ (प्रभुः)
सूर्यः सूर्यायितः सूरिर्नियति-भोजनार्थकः ।
भूमा भूयान् प्रभविष्णुः संहर्त्ता पशुसंज्ञकः ॥ ११३॥
पशुपालः पशुद्रष्टा पशु-हिंसा-निवारकः ।
शुद्धिदः शुद्धिसंधायी शुद्धाचार-प्रचारकः ॥ ११४॥
तीर्थाङ्गस्तीर्थदस्तीर्थो तीर्थपात् तीर्थशोधनः ।
मुनिभोजी मुनिस्नायी मुनिमानी मुनीङ्गितः ॥ ११५॥
शास्त्रज्ञः शास्त्रसंवादी शास्त्रानुसारदीपकः ।
धर्मज्ञो धर्मदो धर्मी धर्मदृग्धर्मसेवकः ॥ ११६॥
पावकः पावनः पावी पवित्राङ्गः पवित्रकृत् ।
मोक्षदो मोक्षको मोक्षी मोक्षकृन्मोक्षदायकः ॥ ११७॥
रमादृष्टो रमापृष्टो रमाहृष्टो रमार्थवित् ।
रमातुष्टो रमापुष्टो रमाशेषान्नभोजितः ॥ ११८॥
रमाद्रष्टा प्रहृष्टाङ्गो हर्षवर्षी हृदाकुलः ।
शेषभुक् शेषसंभोक्ता हरिशेषवशेशयः ॥ ११९॥
पोषणः पोषकः पोषी पोषदः पुष्टिवर्द्धनः ।
सुप्रसन्नः प्रसन्नात्मा प्रसादकः प्रसादवान् ॥ १२०॥
हरिध्यायी हरिध्याता हरिक्रियानुचिन्तकः ।
तोषकस्तोषदस्तोषी तोषणस्तोषधारणः ॥ १२१॥
कृष्णभाक् कृष्णसंसेवी कृष्णानुकम्पितः प्रभुः ।
औदुम्बरात्मसंमोक्षी सारूप्य-सुप्रदः कृती ॥ १२२॥
सुकृती सुकृताभिज्ञः सुकृतार्थी कृतार्थकृत् ।
द्विजावेद्यो हितः सोढा गूढोऽनुग्राहको ग्रहः ॥ १२३॥
ग्रहीता ग्राहको ग्राही सङ्ग्रहणाग्रहोज्झितः ।
आनन्दो नन्दनो नन्दो नन्द-नन्दन-चिन्तनः ॥ १२४॥
समानन्दः सदानन्दो निमानन्दः सुनन्दनः ।
द्विजाभिप्रायमर्मज्ञो द्विजाभिशापमर्षकः ॥ १२५॥
मृत्यूपायौघसंग्रासो मृत्यूपायविवर्जितः ।
अमृतो मारको मारी मारणो मृत्युधर्षणः ॥ १२६॥
पद्मनाभ-पदध्याता पद्मनाभ-हृदर्चितः ।
पद्मनाभ-द्विज-विजित् पद्मनाभ-द्विजार्थितः ॥ १२७॥
पद्मनाभ-द्विजार्थार्थी पद्मनाभाग्निशान्तिकृत् ।
पद्मनाभ-द्विजादेष्टा भक्त-तत्त्वोपदेशकः ॥ १२८॥
पद्मनाभान्न-संभोजी शश्वत्सच्छेषभागकृत् ।
पद्मनाभ-द्विजाज्ञायी पद्मनाभ-प्रसादकः ॥ १२९॥
पद्मनाभ-प्रसन्नात्मा पद्मनाभ-मनोहरः ।
द्विजाभिवन्दितपदः पद्मनाभ-द्विजस्तुतः ॥ १३०॥
पद्मनाभाङ्घ्रिसंचित्तः पद्मनाभ-स्तवः-स्मरः ।
पद्मपत्रविशालाक्षः पद्मनाभ-स्तुतिकरः ॥ १३१॥
नैर् ऋत-स्तुति-निष्ठा-त्यगुच्ययातो वरार्थितः ।
बुद्धाचारो विशुद्धेहो निगमार्थ-विशुद्धिकृत् ॥ १३२॥
द्वारकावास-तत्त्वज्ञो द्वारकावास-संस्थितः ।
वासुदेवाङ्घ्रि-संद्रष्टा वासुदेव-प्रणामकृत् ॥ १३३॥
वासुदेवाङ्घ्रि-नीराशी वासुदेवावशेषधृत् ।
तप्तमुद्रा-समुद्धर्त्ता तप्ताङ्क-स्थापको गुरुः ॥ १३४॥
तप्त-संस्कार-सन्धर्त्ता पाषण्ड-खण्ड-दण्डकृत् ।
द्वारकाधामसंग्राही तप्तमुद्रानिदेशकृत् ॥ १३५॥
सर्वाचार्यो महाचार्यः पतितोद्धारकारकः ।
वासुदेवाङ्ग-संस्तोता वासुदेवान्नसंग्रहः ॥ १३६॥
वासुदेव-प्रणीतात्मा वासुदेवानुगो नरः ।
स्वधर्म-स्थापकः स्थायी स्थाता स्थानकरोवृतः ॥ १३७॥
द्वारकास्वीकृतस्वामी द्वारकातापसंस्कृतिः ।
तापनस्तापकस्तापी सुप्रतापी प्रतापवान् ॥ १३८॥
धारको धारणो धर्त्ता धारी धारणकृत् स्थिरः ।
सरिदुत्पादको नेता चेता चातुर्य्यवारिधिः ॥ १३९॥
कारकः कारणं कर्त्ता करणं कार्यकृत् करः ।
नदीकर्त्ता नदीवोढा नदीघर्ष्टा नदीश्वरः ॥ १४०॥
कोल्लू-कल्लोल-संशोषी जैनजिज्जैनशिक्षकः ।
जैनोच्चाटक उद्धर्त्ता जैनदारो जिनस्तुतः ॥ १४१॥
धर्षको धर्षणो धर्ष्टा धर्षी धर्षितजैनकः ।
कृष्णार्थी कृष्णसेवार्थः कार्ष्णिः कृष्णजनप्रियः ॥ १४२॥
निम्बग्रामकृतावासो निम्बक्काथैक भोजनः ।
निम्बाशो निम्बसंभोक्ता निम्बग्रामनिवासकृत् ॥ १४३॥
निम्बाशनो निराहारो निम्बाहारो निराश्रयः ।
निम्बसेवी निम्बनामा निम्बाशी निम्बभास्करः ॥ १४४॥
निम्बीयान् निम्बनो निम्बी निम्बो निम्बप्रियोऽनघः ।
निम्बेष्टो निम्बको निम्बो निम्बासो निम्बपाककृत् ॥ १४५॥
वर्षिष्णुर्वर्षणो वर्षी वर्षो वर्षाधरो वृषः ।
वर्षिष्ठो वर्षको वर्षी धर्षिष्णुधृष्टसूदनः ॥ १४६॥
वर्षीयान् कृष्णभक्त्यर्थो भक्तेशो भक्तवत्सः ।
तपस्वी तापसस्तप्ता तपोनिष्ठस्तपोऽन्वितः ॥ १४७॥
वदरीदिङ्मदीचिह्नः पुरुषोत्तमवंशकः । (वदरीदिङ्गदीविङ्ग)
सेतुदिगब्जनाभाङ्कश्चतुर्व्यूहधराङ्ककः ॥ १४८॥ (वज्रदिगब्ज)
द्वारकातापसंस्कारो द्वारकातापसंस्क्रियः ।
सेविष्टः संचिनः सेक्ता सेचिष्णुः सिक्तवैष्णवः ॥ १४९॥ ( सेचिष्णुः सिक्तवैभवः)
सेवीयान् सेचिकः सेची सेकाह्लादित-सज्जनः ।
शरण्यः शर्मदः श्रेयान् शरणागतिदोऽविता ॥ १५०॥
शक्यः शरणदः शक्तो महद्गति-महामुनिः ।
विजेता विजयी ज्यायान् ज्येष्ठो भक्त-यशः-प्रदः ॥ १५१॥
अभक्तविप्रसन्दग्धा वैष्णवधर्मपालकः ।
विशिष्टःशिष्टकृच्छिष्टो निर्विशेषो विशेषवान् ॥ १५२॥
सुधाधारः सुधासारः सुधावृष्टिकरो घनः ।
द्योतको द्योतनो द्योतिर्द्योतिष्णुर्द्योतितात्मकः ॥ १५३॥
द्योतीयान् करुणासिन्धुर्द्योतिष्टो द्युतिसत्तमः ।
जीवीयान् जीवनो जीवी जीविष्णुर्जीवनाश्रयः ॥ १५४॥
जीविष्टो जीवको जीवी जीवधर्मविवर्जितः ।
साधिष्टः साधकः साधुः साधिष्णुः साधुसंमतः ॥ १५५॥
साधीयान् साधुमार्गस्थः साधुधर्मप्रवर्तकः ।
राधाकृष्ण-सदाध्यायी राधाकृष्णनुरञ्जनः ॥ १५६॥
राधाकृष्णमनोधर्ता राधाकृष्णानुशीलनः ।
राधाकृष्णयुगाराधी राधाकृष्णाह्व-योजकः ॥ १५७॥
माथुरो मथुराधारो मथुरावासतत्परः ।
गोवर्द्धनपरिक्रामो गोवर्द्धनान्तिकस्थितः ॥ १५८॥
गोवर्द्धनसदाद्रष्टा राधाकुण्डाभिषेचकः ।
चक्रतीर्थ-सदास्नायी मानसी स्नाननिष्ठितः ॥ १५९॥
बृहत्सानुपरिद्रष्टा राधाकृष्णानुदर्शकः ।
नन्दग्रामसुसंस्थाता यशोदानन्ददर्शनः ॥ १६०॥
कीर्ति-वृषभानु-वपुर्दर्शी सुसूक्ष्मदृष्टिकृत् ।
व्रजस्थ-तीर्थ-संस्थाता व्रजस्थ-तीर्थ-धारणः ॥ १६१॥
व्रजस्थ-तीर्थ-संस्नायी व्रज-तीर्थानुरञ्जितः ।
व्रजवासकृतोल्लासो व्रजवास-सदोत्सुकः ॥ १६२॥
व्रजवासानुसारस्थो व्रजवास-विशारदः ।
वृन्दावन-सदाद्रष्टा वृन्दावनाभिषज्जितः ॥ १६३॥
वृन्दावन-निदानज्ञो वृन्दावन-निवासकृत् ।
वृन्दावन-सदाचारी वृन्दावन-कृतोत्सवः ॥ १६४॥
यमुना-कूल-संस्नातो यमुना-कूल-जापकृत् ।
व्रजवास-सदाध्यायी निम्बग्राम-सदास्थितः ॥ १६५॥
राधाकृष्णयुगोपासी राधाकृष्णोपदेशकः ।
वेदस्थो वेदसंज्ञाता वेद-वेदाङ्ग-पारगः ॥ १६६॥
वेदोक्तार्थानुसारस्थो वेदोक्तार्थानुसाधकः । (वेदोक्तार्थानुसारधृक्)
राधाकृष्णमनोऽभिज्ञो राधाकृष्णवशङ्करः ॥ १६७॥
राधाकृष्णहृदाविष्टो राधाकृष्णपदार्थितः
विश्वरूपानुसंदर्शी विश्वरूप प्रदर्शनः ॥ १६८॥
भूखण्ड-विग्रह-स्थाता परिचर्य्या-प्रवर्तकः ।
अध्यक्षो द्वापराचार्य्यः परिचर्य्यात्ममोचकः ॥ १६९॥
परिचर्य्या विधानज्ञः परिचर्य्योपदेशकृत् ।
हरिविग्रह-संस्थाता महीमण्डल-पूजितः ॥ १७०॥
अखण्ड-मण्डलाचार्यः पाषण्ड-खण्ड-दूषणः ।
गौरमुखाशय-त्रायी नरहर्य्युपमाचरः ॥ १७१॥
गवेषिता सुरोद्धर्त्ता जामदग्न्योपमाधरः ।
ब्रह्माण्ड खण्ड-संघोष्टा पाषण्डाङ्ग-विडम्बनः ॥ १७२॥
विघ्न-निर्विघ्नितो भ्राता कृष्णनामोपमाकरः ।
मज्जज्जनोपरिष्ठाता भूशैलोद्धारसन्निभः ॥ १७३॥
जलस्थलैक्यसंभावी वटपत्रशयोपमः ।
निर्वंश-वंशता-दाता महर्षि-तुलनाधरः ॥ १७४॥
नक्तं दिनानुसन्धायी कृष्णाङ्घ्रि-नखरोपमः ।
भागवतोपमाभावः कारुण्य-करुणाकरः ॥ १७५॥
व्राणावत्यम्बुसंशोधः शर्वरी-तुलनाधरः । (व्राणावत्यनुसंशोधः, शंवरी)
कृष्णरामोपमाभाव औदुम्बरात्ममुक्तिदः ॥ १७६॥
चतुर्व्यूहावतारीशो व्रजनाथात्मजोपमः ।
ब्रह्मेन्द्रादिकसंकाशः पद्मनाभ-सुशामकः ॥ १७७॥
विमुख-श्रुति-संमोक्षो बुद्ध-सादृश्य-भासकः । (बुद्धि)
द्वारका-धर्म्म-संस्थापी कल्कि-सादृश्य-सूचकः ॥ १७८॥
कोल्लूनदीसमुत्पादी वामन–तुलनाधरः ।
विश्वरूपात्मसंभावी कृष्णानुभावभावकः ॥ १७९॥
सुदर्शन-संहिताकृत् सुदर्शनागमानुवृत् ।
सुदर्शन-कल्पोद्धारी शुभदर्शी शुभार्थकृत् ॥ १८०॥
श्रीस्वधर्माध्व-बोधाब्धिर्नैमिष-खण्ड-भाषकः ।
श्रीनिवासशिष्यसेक्ता कलि-निस्तारदर्शकः ॥ १८१॥
अनेक-भक्त-संराध्यः सत्सेविताङ्घ्रि-पल्लवः ।
तुलसीमालिकाधारी तुलसी-वृन्द-सेचनः ॥ १८२॥
तुलसी-सौरभ-घ्राता तुलसीवन-संश्रयः ।
तुलसीदल कृष्णार्ची तुलसी-मञ्जरीष्टकृत् ॥ १८३॥
आद्याचार्य्यवराकारो निम्बग्रामसदास्थितः ।
रङ्गा-रङ्गवती रङ्गा रङ्गदेव्यङ्कलेखनी ॥ १८४॥
अनुलेख-क्रियाभिज्ञा चित्रकर्म-विशारदा । (अनुत्सेक)
राधिकावामभागस्था राधिकाप्रियकारिणी ॥ १८५॥
पद्मकिञ्जल्कवर्णाभा जपापुष्पाभवाससी ।
सल्लक्षणयुता मध्या सिद्धि-मुक्ति-प्रकल्पिका ॥ १८६॥
शाश्वती श्रीमती सौम्या भागवती हरिप्रिया ।
निम्बादित्यो निदानात्मा विभूत्यब्धिर्विभूतिभाक् ॥ १८७॥
कोल्लूनद्या जयोऽन्नाद्रिः शेषादिक-द्विजान्वयः ।
सर्ववेदान्त-सन्धर्त्ता सर्वेषामुपकारकः ॥ १८८॥
फलस्तुतिः
इति वैष्णव-सन्दोह-सदानन्द-प्रदायकम् ।
निम्बार्क-नाम-साहस्रं संपठन् निर्धनो धनी ॥१८९॥
पुत्र्यपुत्रः पठन् स स्यान्निम्बार्काख्यसहस्रकम् ।
कुष्ठ्यकुष्ठः पठन् स स्यान्निम्बार्काख्यसहस्रकम् ॥ १९०॥
ताप्यतापो वात्यवातो रोग्यरोगोऽज्वरो ज्वरी ।
भोग्यभोगः पठन् स स्यान्निम्बार्काख्यसहस्रकम् ॥ १९१॥
सद्विद्यावानविद्यः स्यादज्ञानी ज्ञानवत्तमः ।
अवैराग्यो विरागी स्यान्निम्बार्काख्यसहस्रकात् ॥ १९२॥
धर्मार्थी लभते धर्ममर्थार्थी चार्थमश्नुते ।
कामार्थी लभते कामं मोक्षार्थी मोक्षमाप्नुयात् ॥ १९३॥
निम्बार्काख्यसहस्रं यो ह्येकदापि पठेन्नरः ।
सर्वतीर्थानि संस्पर्शेद् भू-परिदक्षिणां चरेत् ॥ १९४॥
निम्बार्कनामसाहस्रं यः पठेद्वैष्णवो नरः ।
सेवते सर्वक्षेत्राणि श्रीविग्रहांश्च पश्यति ॥ १९५॥
निम्बार्कनामसाहस्रं यः पठेदेकदा नरः । (पठेद् वैष्णवो नरः)
सर्वतीर्थौघ-संस्पर्शे भूपरिदक्षिणे फलम् ॥ १९६॥
सर्व क्षेत्रनिवासे यत् कृष्णविग्रह-दर्शने ।
सकृत्संपठतां तत्स्यान्निम्बार्काख्यसहस्रकम् ॥ १९७॥
यज्ञकोटिफलं यायात् प्रयागे तत्फलं चरेत् ।
अन्नदानफलं ब्रूयान्निम्बार्काख्यसहस्रकम् ॥ १९८॥
फलं निगमपाठस्य पुराणपठनस्य यत् ।
शास्त्रपाठस्य पठतां निम्बार्काख्यसहस्रकम् ॥ १९९॥
गोदानस्य च यत्पुण्यमश्वदानस्य यत्फलम् ।
विद्यादानस्य यत्पुण्यं तत्फलं पठतां सकृत् ॥ २००॥
वैष्णवानां मनुष्याणां निम्बार्काख्यसहस्रकम् ।
स्त्रीगोघ्नः पितृहन्ता च राजघ्नो बालघातकः ॥ २०१॥
ब्रह्महा मद्यपः पापो मुच्यते सर्वपातकात् ।
संपठेदेकदा वाऽपि निम्बार्काख्यसहस्रकम् ॥ २०२॥
मानसं वाचिकं घोरं कायिकं पापसम्भवम् ।
गुरुनिन्दोद्भवं पापं वेदब्राह्मणदोषजम् ॥ २०३॥
पठितात् क्षयमाप्नोति निम्बार्काख्यसहस्रकात् ।
गुर्विणी सूयते पुत्रं कन्या सत्पतिमश्नुते ॥ २०४॥
विधवा सद्गतिं याति जीवत्पतिः सभर्तृका ।
भवति, संपठेत् सकृन्निम्बार्काख्यसहस्रकम् ॥ २०५॥
ब्राह्मणो लभते विद्यां क्षत्रियो जयमाप्नुयात् ।
वैश्यो धनौघमायाति शूद्र आनन्दमश्नुते ॥ २०६॥
संपठेदेकदा वापि निम्बार्काख्यासहस्रकम् ।
निम्बार्कनामसाहस्रात् संपठिताच्छुतादपि ॥ २०७॥
वश्यतां याति राजाऽपि स्वल्पजीवस्य का कथा ।
यः कोऽपि पठते वाऽपि निम्बार्काख्यसहस्रकम् ॥ २०८॥
ज्ञान-वैराग्य-विद्यादेरञ्जसा फलमश्नुते ।
निम्बार्कनामसाहस्रं निष्कामः पठते सकृत् ॥ २०९॥
अञ्जसा भक्तिमाप्नोति राधाकृष्णप्रतोषिणीम् ।
कार्तिकस्नायिनां पुण्यं माघाभिषेचिनां फलम् ॥ २१०॥
वैशाखस्नायिनां पुण्यमेकादशीव्रते फलम् ।
पठतां तत्सकद्वापि निम्बार्काख्यसहस्रकम् ॥ २११॥
मथुरावासिनां पुण्यं द्वारिकावासिनां फलम् ।
माया-वासेन यत्पुण्यमयोघ्यावासिनां फलम् ॥ २१२॥
काशीवासेन यत्पुण्यं काञ्ची-वासेन यत्फलम् ।
अवन्तीवासिनां पुण्यं सप्तपुरी-निवासिनाम् ॥ २१३॥
सकृत् संपठतां तत्तनिम्बार्काख्यसहस्रकम् ।
बदरीनाथदृष्टौ यज्जगन्नाथावलोकने ॥ २१४॥
रामसेतुदृशः पुण्यं कुशस्थलीश-दर्शने ।
सकृत् संपठतां तत्तनिम्बार्काख्यसहस्रकम् ॥ २१५॥
निम्बार्कनामसाहस्रं पठन् दिग्विजयं चरेत् ।
शत्रवो भीतिताः सर्वे नमन्ति ह्यग्रतः स्वयम् ॥ २१६॥
निम्बार्कनामसाहस्र-पाठकाद् वैष्णवाग्रतः ।
भूत-प्रेत-पिशाचाश्च ब्रह्मराक्षस-भैरवाः ॥ २१७॥
वैताला गुह्यकाश्चैव शाकिनी-डाकिनी-ग्रहाः ।
निम्बार्कतेजसा तप्ताः पलायन्ते दिशो दश ॥ २१८॥
निम्बार्कनामसाहस्रं पठतां कृष्णसेविनाम् ।
पापसंघा विलीयन्ते सूर्योदये तमो यथा ॥ २१९॥
निम्बार्कनामसाहस्रं पठतां हृदि चिन्तिता ।
कार्यसिद्धिर्भवत्यग्रे साधिता निम्बभास्वता ॥ २२०॥
निम्बार्कनामसाहस्रपाठे निम्बार्कसेविनाम् ।
सर्वसाधनहीनानां प्रेमभक्तिः सुसिद्ध्यति ॥ २२१॥
स्वर्णस्तेय्यनृतोद्वाची सर्वापराधदूषितः ।
शुद्ध्यति संपठन्नेव निम्बार्काख्यासहस्रकम् ॥ २२२॥
निम्बार्कनाम-साहस्र-पाठादृते तु वैष्णवः ।
निम्बार्कैतिह्यहीनो वै स ज्ञेयो वैष्णवाधमः ॥ २२३॥
रंगदेव्यननुवृत्या सखीभावो न सिद्ध्यति ।
निम्बार्कनामसाहस्रपाठादेव तु वैष्णवः ॥ २२४॥
अभीतः श्रुतयः साङ्गाः शास्त्र-पुराण-संहिताः ।
यैः पठितं श्रुतं वापि निम्बार्काख्यासहस्रकम् ॥ २२५॥
बहुधा साधितैर्मन्त्रैः साधकानां तु यत्फलम् ।
यच्छति पठितं तत्तन्निम्बार्काख्यासहस्रकम् ॥ २२६॥
नीचाय दुर्विनीताय हिंस्राय दोषदर्शिने ।
गुरुभक्तिविहीनाय परदाररताय च ॥ २२७॥
पञ्चसंस्कारहीनाय दुराचाराय पापिने ।
शठाय परशिष्याय नास्तिकायात्मघातिने ॥ २२८॥
निम्बादित्याङ्घ्रिहीनाय सम्प्रदायविवर्जिने ।
न देयं नैव देयं वै निम्बार्काख्यासहस्रकम् ॥ २२९॥
देयं शान्ताय शुद्धाय सम्प्रदायरताय च ।
राधाकृष्णोपसन्नाय गुरुभक्तिपराय च ॥ २३०॥
निम्बादित्याङ्घ्रिभक्ताय निम्बादित्योक्तवेदिने ।
पञ्चसंस्कारयुक्ताय तुलसीमालिने तथा ॥ २३१॥
जितक्रोधाय नम्राय शुद्धाचारयुताय च ।
शिष्याय समभक्ताय स्वच्छान्तः करणाय च ॥ २३२॥
नित्यपूजारतायाऽथ निम्बार्काख्यासहस्रकम् ।
ब्राह्मणाय न देयं वै विष्णुभक्तिविदूषिणे ॥ २४३॥
श्वपचाय सदा देयं कृष्णभक्तिरताय च ।
निम्बार्कनामसाहस्रं न पठेत् संस्कृतोऽपि यः ॥ २३४॥
कथं स वैष्णवो ज्ञेयो निम्बार्क-साम्प्रदायिकैः ।
निम्बार्कभक्तिहीनो यः श्वपचादधिको हि सः ॥ २३५॥
निम्बार्कनामसाहस्रादृते वै वैष्णवस्य तु ।
सिद्ध्यति मन्त्रराजो न कल्पकोटिशतैरपि ॥ २३६॥
तुलसी-मन्दिरे तीर्थे गोपालमूर्तिसन्निधौ
स्वसम्प्रदायके साधौ निरुपद्रवसंस्थितौ ॥ २३७॥
निम्बार्कनामसाहस्रं सम्पठेद्वैष्णवः सदा ।
निम्बार्कनामसाहस्रं पठतां सततं सताम् ॥ २३८॥
राधाकृष्णाऽऽविरस्तिस्तु भवत्यत्र न संशयः । (आविरस्तिः-आविर्भावः इत्यर्थः ।)
निम्बार्कनामसाहस्रं पठतां महतां सताम् ॥ २३९॥
विघ्ना नैव भविष्यन्त्यकालमृत्युभयादिकाः ।
जीवन्मुक्तो भवेत्सोऽपि कृष्णसायुज्यमाप्नुयात् ।
सत्यं सत्यं पुनः सत्यं श्रीनिम्बार्कप्रसादतः ॥ २४०॥
जयतु जयतु निम्बार्कोऽनिरुद्धो गरिष्ठो
जयतु जयतु कार्ष्णिः श्रीकुमारो महिष्ठः ॥
जयतु जयतु देवर्षिर्महार्हो वरिष्ठो (जयतु जयतु देवकृष्णमार्होवरिष्ठ)
जयतु जयतु निम्बादित्यसंज्ञा-धरिष्ठः ॥ २४१॥
जयतु जयतु सिद्धः श्रीनिवासो बलिष्ठो
जयतु जयतु राधाकृष्णयुग्मं विशिष्टम् ।
जयतु जयतु वृन्दारण्यसंज्ञासुकीर्त्तिः
सुमधुर-रसदा वृन्दासखी यूथमुख्या ॥ २४२॥ (वृन्दासखी यूथपाली)
जयतु जयतु नित्या जंजपूका क्रियाधा (जयतु जयतु जटिलाद्यास्ताद्वियुग्यासुधा)
जयतु जयतु मुग्धा जानती गीतभेदान् ।
जयतु जयतु मुख्या रंगदेवी सुमध्या (रंगदेवी सुकर्वी)
जयतु जयतु गम्भीरा सुदेवैकनिष्ठा ॥ २४३॥ (सुदेवी कनिष्ठा)
अरिवरमवतीर्ण(१) विष्णुहस्तात् सुवर्णं (विष्णुहस्तस्थमेव, विष्णुहस्तासवर्णम्))
हरिविधिकरपार्श्वे सेवितं विद्यमानम् । (सेव्यतो विद्यमानम्)
व्रजपतिसुतयोः श्रीरंगदेवीस्वरूपे (श्रीरंगदेव्या समंताम्, श्रीरंगदेव्याकृतिं तम्)
प्रणमत सततं निम्बार्कमाचार्यवर्य्यम् ॥ २४४॥
॥ इति श्रीनिम्बार्कसहस्रनामस्तोत्रं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now