श्रीनिम्बार्कस्तोत्रम् PDF संस्कृत
Download PDF of Nimbarkastotram1 Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीनिम्बार्कस्तोत्रम् संस्कृत Lyrics
|| श्रीनिम्बार्कस्तोत्रम् ||
श्रीमते सर्वविद्यानां प्रभवाय सुब्रह्मणे ।
प्राचार्याय मुनीन्द्राय निम्बार्काय नमोनमः ॥ १॥
निम्बादित्याय देवाय जगज्जन्मादिकारिणे ।
सुदर्शनावताराय नमस्ते चक्ररूपिणे ॥ २॥
नमः कल्याणरूपाय निर्दोषगुणशालिने ।
प्रज्ञानघनरूपाय शुद्धसत्त्वाय ते नमः ॥ ३॥
सूर्यकोटिप्रकाशाय कोटीन्दुशीतलाय च ।
शेषानिश्चिततत्त्वाय तत्त्वरूपाय ते नमः ॥ ४॥
विदिताय विचित्राय नियमानन्दरूपिणे ।
प्रवर्त्तकाय शास्त्राणां नमस्ते शास्त्रयोनये ॥ ५॥
वसतां नैमिषारण्ये मुनीनां कार्यकारिणे ।
तन्मध्ये मुनिरूपेण वसते प्रभवे नमः ॥ ६॥
लीलां सम्पश्यते नित्यं कृष्णस्य परमात्मनः ।
निम्बग्रामनिवासाय विश्वेशाय नमोनमः ॥ ७॥
स्थापिता येन द्वार्वत्यां तप्तमुद्रा कलौ युगे ।
निम्बार्काय नमस्तस्मै दुष्कृतामन्तकारिणे ॥ ८॥
य इदं पठते स्तोत्रं निम्बादित्यस्य बुद्धिमान् ।
तस्य क्वापि भयं नास्ति सूर्यस्य तमसीव तु ॥ ९॥
इति महर्षिवरश्रीऔदुम्बराचार्यप्रणीतं श्रीनिम्बार्कस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीनिम्बार्कस्तोत्रम्
READ
श्रीनिम्बार्कस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
