नित्यानन्दाष्टोत्तरशतनामस्तोत्रम् PDF संस्कृत
Download PDF of Nityanandashtottarashatanamastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
नित्यानन्दाष्टोत्तरशतनामस्तोत्रम् संस्कृत Lyrics
|| नित्यानन्दाष्टोत्तरशतनामस्तोत्रम् ||
श्रीमान्नित्यानन्दचन्द्राय नमः ।
नित्यानन्दमहं वन्दे कर्णे लम्बितमौक्तिकम् ।
चैतन्याग्रजरूपेण पवित्रीकृतभूतलम् ॥ १॥
प्रणम्य श्रीजगन्नाथं नित्यानन्दमहाप्रभुम् ।
नाम्नामष्टोत्तरशतं प्रवक्ष्यामि मुदाकरम् ॥ २॥
नीलाम्बरधरः श्रीमाल्लाङ्गलीमुसलप्रियः ।
सङ्कर्षणश्चन्द्रवर्णो यदूनां कुलमङ्गलः ॥ ३॥
गोपिकारमणो रामो वृन्दावनकलानिधिः ।
कादम्बरीसुधामत्तो गोपगोपीगणावृतः ॥ ४॥
गोपीमण्डलमध्यस्थो रासताण्डवपण्डितः ।
रमणीरमणः कामी मदघूर्णितलोचनः ॥ ५॥
रासोत्सवपरिश्रान्तो घर्मनीरावृताननः ।
कालिन्दीभेदनोत्साही नीरक्रीडाकुतूहलः ॥ ६॥
गौराश्रयः शमः शान्तो मायामानुषरूपधृक् ।
नित्यानन्दावधूतश्च यज्ञसूत्रधरः सुधीः ॥ ७॥
पतितप्राणदः पृथ्वीपावनो भक्तवत्सलः ।
प्रेमानन्दमदोन्मत्तः ब्रह्मादीनामगोचरः ॥ ८॥
वनमालाधरो हारी रोचनादिविभूषितः ।
नागेन्द्रशुण्डदोर्दण्डस्वर्णकङ्कणमण्डितः ॥ ९॥
गौरभक्तिरसोल्लासश्चलच्चञ्चलनूपुरः ।
गजेन्द्रगतिलावण्यसम्मोहितजगज्जनः ॥ १०॥
सम्वीतशुभलीलाधृग्रोमाञ्चितकलेवरः ।
हो हो ध्वनिसुधाशिश्च मुखचन्द्रविराजितः ॥ ११॥
सिन्धूरारुणसुस्निग्धसुबिम्बाधरपल्लवः ।
स्वभक्तगणमध्यस्थो रेवतीप्राणनायकः ॥ १२॥
लौहदण्डधरो शृङ्गी वेणुपाणिः प्रतापवान् ।
प्रचण्डकृतहुङ्कारो मत्तः पाषण्डमार्दनः ॥ १३॥
सर्वभक्तिमयो देव आश्रमाचारवर्जितः ।
गुणातीतो गुणमयो गुणवान् नर्तनप्रियः ॥ १४॥
त्रिगुणात्मा गुणग्राही सगुणो गुणिनां वरः ।
योगी योगविधाता च भक्तियोगप्रदर्शकः ॥ १५॥
सर्वशक्तिप्रकाशाङ्गी महानन्दमयो नटः ।
सर्वागममयो धीरो ज्ञानदो मुक्तिदः प्रभुः ॥ १६॥
गौडदेशपरित्राता प्रेमानन्दप्रकाशकः ।
प्रेमानन्दरसानन्दी राधिकामन्त्रदो विभुः ॥ १७॥
सर्वमन्त्रस्वरूपश्च कृष्णपर्यङ्कसुन्दरः ।
रसज्ञो रसदाता च रसभोक्ता रसाश्रयः ॥ १८॥
ब्रह्मेशादिमहेन्द्राद्यवन्दितश्रीपदाम्बुजः ।
सहस्रमस्तकोपेतो रसातलसुधाकरः ॥ १९॥
क्षीरोदार्णवसम्भूतः कुण्डलैकावतंसकः ।
रक्तोपलधरः शुभ्रो नारायणपरायणः ॥ २०॥
अपारमहिमानन्तो नृदोषादर्शनः सदा ।
दयालुर्दुर्गतित्राता कृतान्तो दुष्टदेहिनाम् ॥ २१॥
मञ्जुदाशरथिर्वीरो लक्ष्मणः सर्ववल्लभः ।
सदोज्ज्वलो रसानन्दी वृन्दावनरसप्रदः ॥ २२॥
पूर्णप्रेमसुधासिन्धुर्नाट्यलीलाविशारदः ।
कोटीन्दुवैभवः श्रीमान् जगदाह्लादकारकः ॥ २३॥
गोपालः सर्वपालश्च सर्वगोपावतंसकः ।
माघे मासि सिते पक्षे त्रयोदश्यां तिथौ सदा ॥ २४॥
उपोषणं पूजनं च श्रीनित्यानन्दवासरे ।
यद्यत् सः कुरुते कामं तत्तदेव लभेन्नरः ॥ २५॥
असाध्यरोगयुक्तोऽपि मुच्यते गदभीषणात् ।
अपुत्रः साधुपुत्रं च लभते नात्र संशयः ॥ २६॥
नित्यानन्दस्वरूपस्य नाम्नामष्टोत्तरं शतम् ।
यः पठेत् प्रातरुत्थाय स लभेद्वाञ्छितं ध्रुवम् ॥ २७॥
इति सार्वभौम भट्टाचार्यविरचितं
नित्यानन्दाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowनित्यानन्दाष्टोत्तरशतनामस्तोत्रम्
READ
नित्यानन्दाष्टोत्तरशतनामस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
