श्रीपादुकाष्टकम् PDF संस्कृत
Download PDF of Padukashtakam2 Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीपादुकाष्टकम् संस्कृत Lyrics
|| श्रीपादुकाष्टकम् ||
श्रीसमज्ञितमव्ययं परमप्रकाशगोचरं
खेदवर्जितमप्रमेयमनन्तमझ्झितकल्मषम् ।
निर्मलं निगमान्तनमद्भुतमप्यतर्क्यमनुत्तमं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ १॥
नादबिन्दु कलात्मकं दशनाद वेद विनोदितं
मन्त्रराजपराजितं निजमण्डलान्तरभासितम् ।
पञ्चवर्णमखण्डमद्भुतमादिकारणमच्युतं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ २॥
हन्तचारुमखण्डनादमनेक वर्णमरूपकं
शब्दजालमयं चराचर जन्तुदेहनिरासिनम् ।
चक्रराजमनाहतोद्भवमेघवर्णमतत्परं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ३॥
बुद्धिरूपमबद्धकं त्रिदैवकूटस्थनिवासिनं
निश्चयं निरतप्रकाशमनेक सद्रुचिरूपकम् ।
पङ्कजान्तरखेलनं निजशुद्धसख्यमगोचरं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ४॥
पञ्चपञ्चहृषिकदेहमनश्च तुष्कपरस्परं
पञ्चभूतनिकामषट्क समीरशब्दमभीकरम् ।
पञ्चकोशगुणत्रयादि समस्तधर्मविलक्षणं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ५॥
पञ्चमुद्रसुलक्ष्यदर्शन भावमात्रनिरूपणं
विद्युदग्नि दग्धतिग विनोद कान्तिविवर्तनम् ।
चिन्मयत्रय वर्तिनं सदसद्विवेकमयायिकं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ६॥
पञ्चवर्णशुकं समस्त रुचिर्विचित्र विचारिणं
चन्द्र सूर्य चिदग्नि मण्डल मण्डितं घन चिन्मयम् ।
चित्कलापरिपूर्णमण्डल चित्समाधिनिरीक्षितं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ७॥
स्थूलसूक्ष्मसकारणान्तरखेलनं परिपालनं
विश्वतैजपप्राज्ञ चेत समन्तरात्मनिजस्थितिम् ।
सर्वकारणमीश्वरं निटलान्तरालविहारिणं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ८॥
तप्तकाञ्चनदीप्यमानमहानुरूपमरूपकं
चन्द्रकान्तरतारकैरवमुज्वलं परमं पदम् ।
नीलनीलरथमध्यमस्थित विद्युदाभविभासितं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ९॥
इति श्रीपादुकाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीपादुकाष्टकम्
READ
श्रीपादुकाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
