श्री राम स्तुतिः (नारद कृतम्)
|| श्री राम स्तुतिः (नारद कृतम्) || श्रीरामं मुनिविश्रामं जनसद्धामं हृदयारामं सीतारञ्जन सत्यसनातन राजारामं घनश्यामम् । नारीसंस्तुत कालिन्दीनत निद्राप्रार्थित भूपालं रामं त्वां शिरसा सततं प्रणमामि च्छेदित सत्तालम् ॥ १ ॥ नानाराक्षसहन्तारं शरधर्तारं जनताधारं वालीमर्दन सागरबन्धन नानाकौतुककर्तारम् । पौरानन्दद नारीतोषक कस्तूरीयुत सत्फालं रामं त्वां शिरसा सततं प्रणमामि च्छेदित सत्तालम् ॥ २ ॥ श्रीकान्तं जगतीकान्तं स्तुतसद्भक्तं बहुसद्भक्तं…



