श्री मयूरेश स्तुतिः
|| श्री मयूरेश स्तुतिः || देवर्षय ऊचुः । नमस्ते शिखिवाहाय मयूरध्वजधारिणे । मयूरेश्वरनाम्ने वै गणेशाय नमो नमः ॥ १ ॥ अनाथानां प्रणाथाय गताहङ्कारिणां पते । मायाप्रचालकायैव विघ्नेशाय नमो नमः ॥ २ ॥ सर्वानन्दप्रदात्रे ते सदा स्वानन्दवासिने । स्वस्वधर्मरतानां च पालकाय नमो नमः ॥ ३ ॥ अनादये परेशाय दैत्यदानवमर्दिने । विधर्मस्थस्वभावानां हर्त्रे विकट ते नमः ॥…



