श्री धर्मशास्ता स्तोत्रम् (शृङ्गेरि जगद्गुरु विरचितम्)
|| श्री धर्मशास्ता स्तोत्रम् (शृङ्गेरि जगद्गुरु विरचितम्) || जगत्प्रतिष्ठाहेतुर्यः धर्मः श्रुत्यन्तकीर्तितः । तस्यापि शास्ता यो देवस्तं सदा समुपाश्रये ॥ १ ॥ श्रीशङ्करार्यैर्हि शिवावतारैः धर्मप्रचाराय समस्तकाले । सुस्थापितं शृङ्गमहीध्रवर्ये पीठं यतीन्द्राः परिभूषयन्ति ॥ २ ॥ तेष्वेव कर्मन्दिवरेषु विद्या- -तपोधनेषु प्रथितानुभावः । विद्यासुतीर्थोऽभिनवोऽद्य योगी शास्तारमालोकयितुं प्रतस्थे ॥ ३ ॥ धर्मस्य गोप्ता यतिपुङ्गवोऽयं धर्मस्य शास्तारमवैक्षतेति । युक्तं तदेतद्युभयोस्तयोर्हि…