श्रीपञ्चघाटीस्तोत्रम् PDF संस्कृत
Download PDF of Panchaghatistotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीपञ्चघाटीस्तोत्रम् संस्कृत Lyrics
|| श्रीपञ्चघाटीस्तोत्रम् ||
धाटिपञ्चकम्
श्रीमद्वेङ्कटनाथार्यः कवितार्किक केसरी ।
वेदान्ताचार्य वर्य्यो में सन्न्निधत्तांसदा हृदि ॥
पाषण्डद्रुमषण्डदावदहनश्चार्वाकशैलाशनि-
र्बौद्धध्वान्तनिरासवासरपतिर्जैनेभकण्ठीरवः ।
मायावादिभुजङ्गभङ्गगरुडस्त्रैविद्यचूडामणिः
श्रीरङ्गेशजयध्वजो विजयते रामानुजोऽयं मुनिः ॥ १॥
पाषण्डषण्डगिरिखण्डनवज्रदण्डाः
प्रच्छन्नबौद्धमकरालयमन्थदण्डाः ।
वेदान्तसारसुखदर्शनदीपदण्डाः
रामानुजस्य विलसन्ति मुनेस्त्रिदण्डाः ॥ २॥
चारित्रोद्धारदण्डं चतुर्नयपथालङ्क्रियाकेतुदण्डं
सद्विद्यादीपदण्डं सकलकलिकथासंहृतेः कालदण्डम् ।
त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्रसौवर्णदण्डं
धत्ते रामानुजार्यः प्रतिकथकशिरोवज्रदण्डं त्रिदण्डम् ॥ ३॥
त्रय्या माङ्गल्यसूत्रं त्रियुगयुगपथारोहणालम्बसूत्रं
सद्विद्यादीपसूत्रं सगुणनयकथासम्पदां हारसूत्रम् ।
प्रज्ञासूत्रं बुधानां प्रशमधनमनः पद्मिनीनालसूत्रं
रक्षासूत्रं यतीनां जयति यतिपतेर्वक्षसि ब्रह्मसूत्रम् ॥ ४॥
पाषण्डसागरमहावडवामुखाग्निः ।
श्रीरङ्गराजचरणाम्बुजमूलदासः ।
श्रीविष्णुलोकमणिमण्डपमार्गदायी
श्रीरामानुजो विजयते यतिराजराजः ॥ ५॥
कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
इति श्रीपञ्चघाटी स्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीपञ्चघाटीस्तोत्रम्
READ
श्रीपञ्चघाटीस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
