श्रीपञ्चाक्षरमन्त्रगर्भस्तोत्रम् PDF संस्कृत
Download PDF of Panchaksharamantragarbhastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीपञ्चाक्षरमन्त्रगर्भस्तोत्रम् संस्कृत Lyrics
|| श्रीपञ्चाक्षरमन्त्रगर्भस्तोत्रम् ||
दुष्टतमोऽपि दयारहितोऽपि विधर्मविशेषकृतिप्रथितोऽपि ।
दुर्जनसङ्गरतोऽप्यवरोऽपि कृष्ण तवास्मि न चास्मि परस्य ॥ १॥
लोभरतोऽप्यभिमानयुतोऽपि पराऽहितकारणकृत्यपरोऽपि ।
क्रोधपरोऽप्यविवेकहतोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य-
काममयोऽपि गताश्रयणोऽपि पराश्रयगाशयचञ्चलितोऽपि ।
वैषयिकादरसंवलितोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ३॥
उत्तमधैर्यविभिन्नतरोऽपि निजोदरपोषणहेतुपरोऽपि ।
स्वीकृतमत्सरमोहमदोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ४॥
भक्तिपथादरमात्रकृतोऽपि व्यर्थविरुद्धकृतिप्रसृतोऽपि ।
त्वत्पदसन्मुखताऽपतितोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ५॥
संसृतिगेहकलत्ररतोऽपि व्यर्थधनार्जनखेदसहोऽपि ।
उन्मदमानससंश्रयणोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ६॥
कृष्णपथेतरधर्मरतोऽपि स्वस्थितविस्मृतिमद् हृदयोऽपि ।
दुर्जनदुर्वचनादरणोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ७॥
वल्लभवंशजनुःसबलोऽपि स्वप्रभुपादसरोजफलोऽपि ।
लौकिकवैदिकधर्मखलोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ८॥
पञ्चाक्षरमहामन्त्रगर्भिनस्तोत्रपाठतः ।
श्रीमदाचार्यदासानां तदीयत्वं भवेद्ध्रुवम् ॥ ९॥
॥ इति श्रीहरिरायवरचितं श्रीपञ्चाक्षरगर्भस्तोत्रं समाप्तम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीपञ्चाक्षरमन्त्रगर्भस्तोत्रम्
READ
श्रीपञ्चाक्षरमन्त्रगर्भस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
