पञ्चमाष्टकस्थालर्ककृतस्तोत्रम् PDF संस्कृत
Download PDF of Panchamashtakasthalarkakrritastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
पञ्चमाष्टकस्थालर्ककृतस्तोत्रम् संस्कृत Lyrics
|| पञ्चमाष्टकस्थालर्ककृतस्तोत्रम् ||
वन्दे देवं हेत्वात्मानं सच्चिद्रूपं सर्वात्मानम् ।
विश्वाधारं मुन्याकारं स्वेच्छाचारं वाघृद्दूरम् ॥ १॥
विश्वओपाध्या यो ब्रह्मेशोऽविद्योपाध्यात्मानीशः ।
तत्त्वज्ञानान्मायानाशे तर्ह्रेकस्त्वं नेशोऽनीशः ॥ २॥
रज्ज्वज्ञानात्सर्पस्तत्र भ्रान्त्या भातीशैवं ह्यत्र ।
जीवभ्रान्तिस्त्वेषा मिथ्या सा मेऽद्यारं नष्टाऽऽप्रोक्त्या ॥ ३॥
धन्योऽस्म्यद्य त्वद्दृक्पूतो जातोऽस्म्यद्य ब्रह्मीभूतः ।
त्वं ब्रह्मैवासीशारूपो मायायोगान्नानारूपः ॥ ४॥
दत्तात्रेयः प्रज्ञामेयो वेदैर्गेयो योगिध्येयः ।
त्वं विश्वात्मा कस्त्वामीशः स्तोतुं ध्यातुं ज्ञातुं वेशः ॥ ५॥
वृद्धः क्वापि प्रौढः क्वापि बालः क्वापि ब्रह्मः क्वापि ।
अङ्गी भोगी रागी क्वापि त्यागी योगी सङ्गी क्वापि ॥ ६॥
स त्वं वृद्धः सिद्धः शुद्धः श्रद्धाबद्धोप्यन्याविद्धः ।
श्रीशो मायाधीशो धीशो विज्ञानेशो निर्वाणेशः ॥ ७॥
धर्माधर्मातीतो गीतो वेदैर्भेदैर्हीनोनूनः ।
त्वां तं सन्तं भक्त्या मुक्त्या ईशं त्रीशं वन्दे वन्दे ॥ ८॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं
पञ्चमाष्टकस्थालर्ककृतस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowपञ्चमाष्टकस्थालर्ककृतस्तोत्रम्
READ
पञ्चमाष्टकस्थालर्ककृतस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
