श्रीपञ्चमुखिवीरहनूमत्कवचम् PDF संस्कृत
Download PDF of Panchamukhivirahanumatkavacham Sanskrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
श्रीपञ्चमुखिवीरहनूमत्कवचम् संस्कृत Lyrics
|| श्रीपञ्चमुखिवीरहनूमत्कवचम् ||
(सुदर्शनसंहितातः ।)
अस्य श्रीपञ्चमुखिवीरहनूमत्कवचस्तोत्रमहामन्त्रस्य
ब्रह्मा ऋषिः । गायत्री छन्दः ।
पञ्चमुख्यन्तर्गतः श्रीरामरूपी परमात्मा देवता ।
रां बीजम् । मं शक्तिः । चन्द्र इति कीलकम् ।
पञ्चमुख्यन्तर्गत श्रीरामरूपिपरमात्मप्रसादसिद्ध्यर्थे
मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।
रां अङ्गुष्ठाभ्यां नमः ।
रीं तर्जनीभ्यां नमः ।
रूं मध्यमाभ्यां नमः ।
रैं अनामिकाभ्यां नमः ।
रौं कनिष्ठिकाभ्यां नमः ।
रः करतलकरपृष्ठाभ्यां नमः ।
रां हृदयाय नमः ।
रीं शिरसे स्वाहा ।
रूं शिखायै वषट् ।
रैं कवचाय हुम् ।
रौं नेत्राभ्यां वौषट् ।
रः अस्त्राय फट् । भूर्भुवस्सुवरोम् ॥
(इति दिग्बन्धः)
अथ ध्यानम्
वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं
दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा ।
हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशादीन् हलान्
खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिदर्पापहम् ॥
ईश्वर उवाच
अथ ध्यानं प्रवक्ष्यामि शृणु सर्वाङ्गसुन्दरि ।
यत्कृतं देवदेवेशि ध्यानं हनुमतः परम् ॥ १॥
पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् ।
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥ २॥
पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् ।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् ॥ ३॥
अन्यत्तु दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् ।
अत्युग्रतेजोज्वलितं भीषणं भयनाशनम् ॥ ४॥
पश्चिमं गारुडं वक्त्रं वज्रकुण्डं महाबलम् ।
सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥ ५॥
उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं महोज्ज्वलम् ।
पातालसिद्धिवेतालज्वररोगादिकृन्तनम् ॥ ६॥
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् ।
एतत्पञ्चमुखं तस्य ध्यायतामभयङ्करम् ॥
खड्गं त्रिशूलं खट्वाङ्गं पाशाङ्कुशसुपर्वतम् ।
मुष्टिद्रुमगदाभिन्दिपालज्ञानेन संयुतम् ॥ ८॥
एतान्यायुधजालानि धारयन्तं यजामहे ।
प्रेतासनोपविष्टं तु सर्वाभरणभूषितम् ॥ ९॥
दिव्यमालाम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ १०॥
पञ्चास्यमच्युतमनेकविचित्रवीर्यं
श्रीशङ्खचक्ररमणीयभुजाग्रदेशम् ।
पीताम्बरं मकुटकुण्डलनूपुराङ्गं
उद्योतितं कपिवरं हृदि भावयामि ॥ ११॥
मर्कटेश महोत्साह सर्वशोकविनाशक ।
शत्रून् संहर मां रक्ष श्रियं दापय मे प्रभो ॥ १२॥
हरिमर्कटमर्कटमन्त्रमिमं परिलिख्यति लिख्यति भूमितले ।
यदि नश्यति नश्यति शत्रुकुलं यदि मुञ्चति मुञ्चति वामकरः ॥ १३॥
इति ध्यानम्
श्रीपञ्चमुखहनुमत्कवचस्तोत्रमहामन्त्रपठनं करिष्ये
ॐ हरिमर्कटमहामर्कटाय ॐ वं वं वं वं वं वं फट् फे फे स्वाहा ।
ॐ हरिमर्कटमहामर्कटाय ॐ घं घं घं घं घं घं फट् फे फे स्वाहा ।
ॐ हरिमर्कटमहामर्कटाय ॐ खें खें खें खें खें खें फट् फे फे
मारणाय स्वाहा ।
ॐ हरिमर्कटमर्कटाय ॐ ठं ठं ठं ठं ठं ठं फट् फे फे
स्तम्भनाय स्वाहा ।
ॐ हरिमर्कटमर्कटाय ॐ ॐ ॐ ॐ ॐ ॐ फट् फे फे आकर्षणसत्वकाय स्वाहा ।
ॐ हरिमर्कटमर्कटमन्त्रमिदं
परिलिख्यति लिख्यति भूमितले ।
यदि नश्यति नश्यति वामकरे
परिमुञ्चति मुञ्चति शृङ्खलिका ।
ॐ नमो भगवते पञ्चवदनाय पूर्वे कपिमुखाय श्रीवीरहनूमते
ॐ टं टं टं टं टं टं
सकलशत्रुसंहाराय हुं फट् फे फे फे फे फे फे स्वाहा ।
ॐ नमो भगवते श्रीपञ्चवदनाय दक्षिणे
करालवदन श्रीनृसिंहमुखाय
श्रीवीरहनूमते ॐ हं हं हं हं हं हं सकल भूतप्रेतदमनाय
महाबलाय हुं फट् फे फे फे फे फे फे स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय पश्चिमे गरुडमुखाय
श्रीवीरहनूमते ॐ मं मं मं मं मं मं महारुद्राय
सकलरोगविषपरिहाराय
हुं फट् फे फे फे फे फे फे स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय उत्तरे आदिवराहमुखाय श्रीवीरहनूमते
ॐ लं लं लं लं लं लं लक्ष्मणप्राणदात्रे लङ्कापुरीदाहनाय
सकलसम्पत्कराय पुत्रपौत्राद्यभिवृद्धिकराय ॐ नमः स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय ऊर्ध्वमुखस्थितहयग्रीवमुखाय
श्रीवीरहनूमते ॐ रुं रुं रुं रुं रुं रुं रुद्रमूर्तये सकललोकवशीकराय
वेदविद्यास्वरूपिणे । ॐ नमः स्वाहा ।
(इति मूलमन्त्रः । बीजमुद्राः प्रदर्शयेत्)
ॐ कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं
तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं
ळं क्षं स्वाहा । इति दिग्बन्धः ।
ॐ नमो भगवते आञ्जनेयाय महाबलाय हुं फट् फे फे फे फे फे फे स्वाहा ।
ॐ नमो भगवते श्रीवीरहनूमते प्रबलपराक्रमाय आक्रान्तदिङ्मण्डलाय
शोभिताननाय धवलीकृतवज्रदेहाय जगच्चिन्तकाय रुद्रावताराय
लङ्कापुरीदाहनाय उदधिलङ्घनाय सेतुबन्धनाय दशकण्ठशिरःक्रान्ताय
सीताश्वासनाय अनन्तकोटिब्रह्माण्डनायकाय महाबलाय वायुपुत्राय
अञ्जनादेवीगर्भसम्भूताय श्रीरामलक्ष्मणानन्दकराय कपिसैन्यप्रियकराय
सुग्रीवसहायकारणकार्यसाधकाय पर्वतोत्पाटनाय कुमारब्रह्मचारिणे
गम्भीरशब्दोदयाय ॥
(श्रीरामचन्द्रदूताय आञ्जनेयाय वायुपुत्राय महाबलाय सीतादुःख-
निवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय कोलाहलसकल-
ब्रह्माण्डविश्वरूपाय सप्तसमुद्रनिरालम्बिताय पिङ्गलनयनाय
अमितविक्रमाय सूर्यबिम्बफलसेवनाय दृष्टिनिरालङ्कृताय
अङ्गदलक्ष्मणमहाकपिसैन्यप्राणनिर्वाहकाय दशकण्ठविध्वंसनाय
रामेष्टाय फल्गुनसखाय सीतासमेतरामचन्द्रप्रसादकाय स्वाहा ।)
ॐ ह्रीं क्लीं सर्वदुष्टग्रहनिवारणाय सर्वरोगज्वरोच्चाटनाय
शाकिनी-डाकिनीविध्वंसनाय ॐ ह्रीं क्लीं हुं फट् फे फे स्वाहा ।
ॐ नमो भगवते श्रीवीरहनूमते
सर्वभूतज्वरैकाहिक-द्व्याहिक-त्र्याहिक-चातुर्थिक-सन्ततविषमज्वर-
गुप्तज्वर-शीतज्वर-महेश्वरज्वर-वैष्णवज्वरादिसर्वज्वरान्
छिन्दि छिन्दि भिन्दि भिन्दि ।
यक्षराक्षसब्रह्मराक्षसभूतप्रेतपिशाचानुच्चाटयोच्चाटय ॥
ॐ श्रीं ह्रीं हुं फट् फे फे स्वाहा ।
ॐ नमो भगवते श्रीवीरहनूमते नमः ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः । आह आह । असै असै एहि एहि
ॐ ॐ हों हों हुं हुं फट् फे फे स्वाहा ।
ॐ नमो भगवते पवनात्मजाय डाकिनी-शाकिनी-मोहिनीनिःशेष-
निरसनाय सर्वविषं निर्विषं कुरु कारय कारय हुं फट् फे फे स्वाहा ।
ॐ नमो भगवते श्रीवीरहनुमते
सिंहशरभ-शार्दूल-गण्डभेरुण्ड-पुरुषमृगाणां
ओशाति निरसनाय । ???
क्रमनिरसनक्रमणं कुरु । सर्वरोगान्निवारय निवारय आक्रोशय आक्रोशय
शत्रून्मादभयं छिन्दि छिन्दि । छादय छादय । मारय मारय ।
शोषय शोषय । मोहय मोहय । ज्वालय ज्वालय । प्रहारय प्रहारय ।
मम सर्वरोगान् छेदय छेदय । ॐ ह्रीं हुं फट् फे फे स्वाहा ।
ॐ नमो भगवते श्रीवीरहनुमते सर्वरोगदुष्टग्रहानुच्चाटय उच्चाटय
परबलानि क्षोभय क्षोभय ।
मम सर्वकार्याणि साधय साधय । शृङ्खलाबन्धनं मोक्षय मोक्षय ।
कारागृहादिभ्यो मोचय मोचय । शिरःशूल-कर्णशूलाक्षिशूल-कुक्षिशूल-
पार्श्वशूलादि महारोगान् निवारय निवारय । नागपाशानन्त-वासुकि-
तक्षक-कर्कोटक-कालगुलियकपद्म-महापद्म-कुमुदाचलचर-रात्रिचर-
दिवाचरादिसर्वविषं निर्विषं कुरु निर्विषं कुरु । सर्वरोगनिवारणं कुरु ।
सर्वराजसभामुखस्तम्भनं कुरु । स्त्रीजनस्तम्भनं कुरु स्तम्भनं कुरु ।
सर्वभयचोरभयाग्निभयप्रशमनं कुरु प्रशमनं कुरु ।
सर्वनरयन्त्र-परतन्त्र-परविद्यां छेदय छेदय । सन्त्रासय सन्त्रासय ।
मम सर्वविद्यां प्रकटय प्रकटय । पोषय पोषय ।
सर्वारिष्टं शमय शमय सर्वशत्रून् संहारय संहारय ।
सर्वरोगपिशाचबाधां निवारय निवारय ।
ॐ ह्रां ह्रीं ह्रूं ह्रें फट् फे फे स्वाहा ।
ॐ नमो भगवते श्रीवीरहनूमते वरप्रसादकाय सर्वाभीष्टप्रदाय
सकलसम्पत्कराय महारक्षकाय ॐ जं जं जं जं जं जं
जगज्जीवनाय हुं फट् फे फे फे स्वाहा ।
य इदं कवचं नित्यं प्रपठेत् प्रयतो नरः ।
एकवारं पठेन्नित्यं सर्वशत्रुविनाशनम् ।
द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् ॥
त्रिवारं यः पठेन्नित्यं सर्वसम्पत्करं शुभम् ।
चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ॥
पञ्चवारं पठेन्नित्यं सर्वशत्रुवशीकरम् ।
षड्वारं तु पठेन्नित्यं सर्वदेववशीकरम् ॥
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ।
अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् ॥
नववारं सप्तकेन सर्वराज्यवशीकरम् ।
दशवारं च प्रजपेत् त्रैलोक्यज्ञानदर्शनम् ॥
एकादशं जपित्वा तु सर्वसिद्धिकरं नृणाम् ।
त्रिसप्तनववारं च राजभोगं च सम्भवेत् ॥
द्विसप्तदशवारं तु त्रैलोक्यज्ञानदर्शनम् ।
दशैकवारं पठनादिदं मन्त्रं त्रिसप्तकम् ॥
स्वजनैस्तु समायुक्तस्त्रैलोक्यविजयी भवेत् ।
कवचस्मरणादेव महाफलमवाप्नुयात् ।
चन्द्राभं चरणारविन्दयुगलं कौपीनमौञ्जीधरं
नाभ्यां वै कटिसूत्रयुक्तवसनं यज्ञोपवीतं शुभम् ।
हस्ताभ्यामवलम्बिताञ्जलिपुटं हारावलिं कुण्डलं
बिभ्रद्दीर्घशिखाप्रसन्नवदनं वन्द्याञ्जनेयं भजे ॥
(सुदर्शनसंहितातः ।)
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीपञ्चमुखिवीरहनूमत्कवचम्
READ
श्रीपञ्चमुखिवीरहनूमत्कवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
