
पञ्चायुध स्तोत्रम् PDF संस्कृत
Download PDF of Panchayudha Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
पञ्चायुध स्तोत्रम् संस्कृत Lyrics
|| पञ्चायुध स्तोत्रम् ||
स्फुरत्सहस्रारशिखातितीव्रं
सुदर्शनं भास्करकोटितुल्यम् ।
सुरद्विषां प्राणविनाशि विष्णोः
चक्रं सदाऽहं शरणं प्रपद्ये ॥ १ ॥
विष्णोर्मुखोत्थानिलपूरितस्य
यस्य ध्वनिर्दानवदर्पहन्ता ।
तं पाञ्चजन्यं शशिकोटिशुभ्रं
शङ्खं सदाऽहं शरणं प्रपद्ये ॥ २ ॥
हिरण्मयीं मेरुसमानसारां
कौमोदकीं दैत्यकुलैकहन्त्रीम् ।
वैकुण्ठवामाग्रकराभिमृष्टां
गदां सदाऽहं शरणं प्रपद्ये ॥ ३ ॥
रक्षोऽसुराणां कठिनोग्रकण्ठ-
-च्छेदक्षरच्छोणितदिग्धधारम् ।
तं नन्दकं नाम हरेः प्रदीप्तं
खड्गं सदाऽहं शरणं प्रपद्ये ॥ ४ ॥
यज्ज्यानिनादश्रवणात् सुराणां
चेतांसि निर्मुक्तभयानि सद्यः ।
भवन्ति दैत्याशनिबाणवर्षि
शार्ङ्गं सदाऽहं शरणं प्रपद्ये ॥ ५ ॥
इमं हरेः पञ्चमहायुधानां
स्तवं पठेद्योऽनुदिनं प्रभाते ।
समस्त दुःखानि भयानि सद्यः
पापानि नश्यन्ति सुखानि सन्ति ॥ ६ ॥
वने रणे शत्रु जलाग्निमध्ये
यदृच्छयापत्सु महाभयेषु ।
इदं पठन् स्तोत्रमनाकुलात्मा
सुखीभवेत् तत्कृत सर्वरक्षः ॥ ७ ॥
[* अधिक श्लोकाः –
यच्चक्रशङ्खं गदखड्गशार्ङ्गिणं
पीताम्बरं कौस्तुभवत्सलाञ्छितम् ।
श्रियासमेतोज्ज्वलशोभिताङ्गं
विष्णुं सदाऽहं शरणं प्रपद्ये ॥
जले रक्षतु वाराहः स्थले रक्षतु वामनः ।
अटव्यां नारसिंहश्क्ष्च सर्वतः पातु केशवः ॥ *]
इति पञ्चायुध स्तोत्रम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowपञ्चायुध स्तोत्रम्

READ
पञ्चायुध स्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
