श्रीपरमेश्वरस्तोत्रम् २ PDF संस्कृत
Download PDF of Parameshvarastotram2 Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीपरमेश्वरस्तोत्रम् २ संस्कृत Lyrics
|| श्रीपरमेश्वरस्तोत्रम् २ ||
नमः कनकलिङ्गाय वेदलिङ्गाय वै नमः ।
नमः परम लिङ्गाय व्योमलिङ्गाय वै नमः ॥ १॥
नमस्सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः ।
नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ॥ २॥
नमः पाताललिङ्गाय ब्रह्मलिङ्गाय वै नमः ।
नमो रहस्यलिङ्गाय सप्तद्वीपोर्ध्वलिङ्गिने ॥ ३॥
नमस्सर्वात्मलिङ्गाय सर्वलोकाङ्गलिङ्गिने ।
नमस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः ४॥
नमोऽहङ्कारलिङ्गाय भूतलिङ्गाय वै नमः
नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ॥ ५॥
नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः
नमो रजोर्ध्वलिङ्गाय सत्त्वलिङ्गाय वै नमः ॥ ६॥
नमस्ते भवलिङ्गाय नमस्त्रैगुण्यलिङ्गिने ।
नमोऽनागतलिङ्गाय तेजोलिङ्गाय वै नमः ॥ ७॥
नमो वाय्वर्धलिङ्गाय श्रुतिलिङ्गाय वै नमः ।
नमस्ते धर्मलिङ्गाय सामलिङ्गाय वै नमः ॥ ८॥
नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः ।
नमस्ते तत्त्वलिङ्गाय देवानुगतलिङ्गिने ॥ ९॥
दिश नः परमं योगमपत्यं मत्समं तथा ।
ब्रह्म चैवाक्षयं देव शमं चैव परं विभो ।
अक्षयत्वं च वंशस्य धर्मे च मतिमक्षयाम् ॥ १०॥
अग्निः – वसिष्ठेन स्तुतश्शम्भुस्तुष्टश्श्रीपर्वते पुरा ।
वसिष्ठाय वरं दत्वा तत्रैवान्तरधियत ॥ ११॥
(स्कन्दपुराणे पञ्चदशमोऽध्यायः)
इति श्रीस्कान्दे श्रीवसिष्ठकृतं श्रीपरमेश्वरस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीपरमेश्वरस्तोत्रम् २
READ
श्रीपरमेश्वरस्तोत्रम् २
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
