श्रीपार्थसारथ्यष्टोत्तरशतनामस्तोत्रम् PDF संस्कृत
Download PDF of Parthasarathyashtottarashatanamastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीपार्थसारथ्यष्टोत्तरशतनामस्तोत्रम् संस्कृत Lyrics
|| श्रीपार्थसारथ्यष्टोत्तरशतनामस्तोत्रम् ||
ध्यानम्
मुरान्तकं सुरार्चितं धरापतिं परात्परं
निरामयं जराहरं करेण वेत्रधारिणम् ।
सदा ऋते प्रतिष्ठितं भजामि विश्वरूपिणं
सदाशिवप्रियं हरिं नमामि पार्थसारथिम् ॥ १॥
भूपेन तेन मुचुकुन्द महात्मना यः
संस्थापितोस्त्र मुचुकुन्दपुरे मनोज्ञे ।
शङ्खेन चारुतरवेत्रधृतेन दोष्णा
संक्षोभयन्तमखिलं भुवनं तमिडे ॥ २॥
पार्थस्य युद्ध विमुखस्य हृदिस्थ मौढ्यम्
गीतामृतेन शमितं किल येन सद्यः ।
वेदान्तवेद्यमनघं पुरुषं पुराणम्
तं पार्थसारथिमहं प्रणतोऽस्मि भक्त्या ॥ ३॥
अथ स्तोत्रम् ।
ॐ श्रीकृष्णः पार्थसूतः श्रीतुलसीवनसंश्रितः ।
ईश ईड्य इळाकान्तो लीलार्थमनुजाकृतिः ॥ १॥
कृतभारतयुद्धार्थसूतवेषः श्रियःपतिः ।
व्यासप्रत्यक्षितस्वार्चविग्रहो विमलो विभुः ॥ २॥
कृष्णार्तिघ्नः कैरविणीसरस्तीरविहारभूः ।
रुक्मिणी सात्यकीरामप्रद्युम्नोषाधवान्वितः ॥ ३॥
आत्रेयपूजासन्तुष्टो वृन्दारण्यकृतालयः ।
आनन्दाख्यविमानस्थ आत्रेयर्षिप्रतिष्ठितः ॥ ४॥
प्रपन्नागोहरः पार्थराज्यदो रुक्मिणीप्रियः ।
शङ्खराड्दक्षिणकरो वरदेतरपाणिमान् ॥ ५॥
नन्दकी गोविन्द उरुक्रमः कल्याणकारणम् ।
सुमत्याख्यनृपश्रेष्ठवरदो वेङ्कटेश्वरः ॥ ६॥
नीळाधवो धरानन्दवर्धनो वृष्णि पुङ्गवः ।
सुमत्यवनिपालार्थकुटुम्बसहितः सुधीः ॥ ७॥
वेदवेद्योऽच्युतो यज्ञमूर्तिर्यज्ञभुगुत्तमः ।
सुमतिप्रेमरचितमहोत्सवविधिप्रियः ॥ ८॥
महामतिर्महाभागो महायोगी कविप्रियः ।
विष्णुर्वेङ्कटकृष्णाख्यो वरदो वत्सलोस्नघः ॥ ९॥
सालिग्रामशिलामाली पीनवक्षाः प्रियोत्सवः ।
केशवार्येष्टिसन्तुष्टो यतीन्द्रोत्पत्ति कारणम् ॥ १०॥
मयूरनगरीनाथो जगद्दुरितभञ्जनः ।
गीतोपनिषदाचार्यो विश्वरूपप्रदर्शनः ॥ ११॥
भक्तिसारतपस्तुष्टोस्नन्तोस्नन्तगतिः पतिः ।
भक्तिसारस्तुतस्तोत्रप्रियः पक्षीश्वरध्वजः ॥ १२॥
परकालादिसूक्तीड्यो वासुदेवः सुरारिहा ।
इन्द्रसोमाग्नि वरुणमीनतीर्थविहारभूः ॥ १३॥
गम्भीराम्भस्समद्भूतसद्यःसम्फुल्लपद्मदृक् ।
पञ्चमूर्तिः पञ्चहेतिः पञ्चबाणपिता हरिः ॥ १४॥
मन्मथो वेदवल्लीशो श्रीशः सर्वशुभाश्रयः ।
भृगुपुत्रीप्रियो देवः भृग्वाराधनतोषितः ॥ १५॥
चतुर्भुजः पद्मनाभः शेषशायी सुखायनम् ।
माघशुक्ल द्वादशीकृतोद्वाहश्च कृपानिधिः ॥ १६॥
रामः सीतासमायुक्तो मधुमद्वरदो वसुः ।
ससौमित्रिः सभरतः साञ्जनेयो धनुर्धरः ॥ १७॥
गजेन्द्रवरदस्तार्क्ष्यसमारूढो नृपार्चितः ।
आरूढयोगो नृहरिर्मौद्गल्यवरदोस्मलः ॥ १८॥
शरण्यः शरणः शान्तः शरणागतवत्सलः ।
महामन्त्रार्चनप्रीतो महैश्वर्यप्रदायकः ॥ १९॥
॥ फलश्रुतिः ॥
य इदं परमं पुण्यं नाम्नामष्टोत्तर शतम् ।
पार्थस्य सारथेःस्तोत्रं सर्वाभीष्टप्रदायकम् ॥ १॥
प्रत्यहं प्रातरुत्थाय प्रयतः पठते नरः ।
तस्य विद्या धनं शान्तिः पुष्टिस्तुष्टिश्च जायते ॥ २॥
स्वयमेव हरिः साक्षात् भूत्वा सारथिरुत्तमः ।
तस्य जीवनयात्रायां कुरुते सर्वमङ्गलम् ॥ ३॥
इति श्रीपार्थसारथ्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीपार्थसारथ्यष्टोत्तरशतनामस्तोत्रम्
READ
श्रीपार्थसारथ्यष्टोत्तरशतनामस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
