पर्वतवर्धिन्यष्टकं अथवा रामनाथेश्वर्यष्टकम् PDF संस्कृत
Download PDF of Parvatavardhinyashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
पर्वतवर्धिन्यष्टकं अथवा रामनाथेश्वर्यष्टकम् संस्कृत Lyrics
|| पर्वतवर्धिन्यष्टकं अथवा रामनाथेश्वर्यष्टकम् ||
श्रीगणेशाय नमः ।
सेव्यां साधुजनैः सरोजनयनां पूर्णेन्दुबिम्बाननां
ईड्यामागमवेदिभिर्मुनिगणैः ध्येयां सदा योगिभिः ।
ध्येयां तुम्बुरुनारदप्रभृतिभिः ब्रह्मादिभिः पूजितां
वन्दे पर्वतवर्धितां स्मितमुखीं श्रीरामनाथेश्वरीम् ॥ १॥
गौरीं हारकिरीटनूपरलसत्खण्डेन्दुभूषान्वितां
विद्यां वेदशिरोभिरीड्यमहिमामीशानदेहालयाम् ।
भक्ताभीष्टवरप्रदानचतुरां संसारसंहारिणीं
वन्दे पर्वतवर्धितां स्मितमुखीं श्रीरामनाथेश्वरीम् ॥ २॥
मायामात्रविनोदनिर्मितजगद्रक्षान्तकृत्यान्वितां
सेतौ सादरमागताखिलजगत्क्षेमाय सम्प्रस्थिताम् ।
भक्ताघौघवनानलोज्ज्वलशिखां राजीवनेत्रद्वयां
वन्दे पर्वतवर्धितां स्मितमुखीं श्रीरामनाथेश्वरीम् ॥ ३॥
दुर्गे गौरि भवानि पार्वति शिवे शर्वाणि रुद्रप्रिये
मातर्लोकजनन्यभीष्टवरदे शैलेन्द्रकन्ये उमे ।
चिन्तातीतपते चिरन्तननुते षड्वक्त्रलीलारते
वन्दे पर्वतवर्धितां स्मितमुखीं श्रीरामनाथेश्वरीम् ॥ ४॥
गन्धर्वामरयक्षपन्नगवधूसीमन्तलग्नाङ्घ्रिके
भक्ताभीष्टदकल्पकायितभुजे संवीक्षितेशानने ।
कण्ठेन्द्वङ्कितमस्तके त्रिनयने पिताम्बरे श्यामले
वन्दे पर्वतवर्धितां स्मितमुखीं श्रीरामनाथेश्वरीम् ॥ ५॥
गायत्र्यादिसरित्सरोदधितडाकौघैः सदा सेवितां
राजत्कर्णविलम्बिकुण्डलमणिश्रेणिप्रभारञ्जिताम् ।
उत्तुङ्गस्तनमध्ययुग्मविलसद्धारां करालालकां
वन्दे पर्वतवर्धितां स्मितमुखीं श्रीरामनाथेश्वरीम् ॥ ६॥
रक्षोराजवदौघचोदनकृपापूर्णावलोकेक्षणे
सर्वव्याकुलतापशोकशमने सांराज्यसौभाग्यदे ।
हत्याघौघविनाशनस्तुतिपदे मृत्युञ्जयार्दाकृते
वन्दे पर्वतवर्धितां स्मितमुखीं श्रीरामनाथेश्वरीम् ॥ ७॥
चित्तादर्शविकासिवर्ष्मरुचिरामुत्फुल्लवक्त्राम्बुजां
वीक्षालब्धविरिञ्चविष्णुविभवामापत्सहायाङ्घ्रिकाम् ।
देवीं दैवतवृन्दवन्दितपदां दैत्येन्द्रसंहारिणीं
वन्दे पर्वतवर्धितां स्मितमुखीं श्रीरामनाथेश्वरीम् ॥ ८॥
मातर्हैमवतीश्वरि त्रिनयने दाक्षायणीशप्रिये
बालेन्द्वङ्कितमस्तकेऽरुणरुचे षड्वक्त्रपीतस्तने ।
मां रामं जनकात्मजां च सहजं सुग्रीवमुख्यान्कपीन्
सर्वान् त्राहि नमोऽस्तु ते भगवति श्रीरामनाथेश्वरिम् ॥ ९॥
नमो गौर्यै पुनर्नमो शिवे राघवसन्नुते ।
नमो भवान्यै वरदे नमः शङ्करवल्लभे ॥ १०॥
इति श्रीराघवेन प्रार्थितं पर्वतवर्धिन्यष्टकं
अथवा रामनाथेश्वर्यष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowपर्वतवर्धिन्यष्टकं अथवा रामनाथेश्वर्यष्टकम्
READ
पर्वतवर्धिन्यष्टकं अथवा रामनाथेश्वर्यष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
