पतितपावनाष्टकम् PDF संस्कृत
Download PDF of Patitapavanashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
पतितपावनाष्टकम् संस्कृत Lyrics
|| पतितपावनाष्टकम् ||
सचिन्त इव लक्ष्यसे सपदि मे चरित्रं स्मरन्
परं कलितसाहसः पतितपावनत्वव्रतात् ।
न मामगणयः पुरा न हि विचारकालोऽधुना
व्रतं विसृज वाथवा वरद पावयैनं जनम् ॥ १॥
न राघव न वायसो न खलु कृष्ण चैद्योऽस्म्यहम्
न खल्वहमजामिलो नरकनाश नारायण ।
प्रधानमपराधिनां परिवृढं च मां पापिनं
क्षमाजलनिधे विदन् सपदि सावधानो भव ॥ २॥
यद्युद्यदघलेखनाकलनजाग्रदग्राङ्गुलि-
मिलत्प्रखरलेखनीमुखविघातवीतोद्यमः ।
अलं किल ललज्जिरे सपदि चित्रगुप्तादयः
स एष पतिताग्रणी सदय रक्ष दक्षोऽसि चेत् ॥ ३॥
विदन्न् अपि हृदन्तरे प्रतिपदं यदंहःकृते
यते यदुपते न ते विफलता व्रते स्यादिति ।
यतोऽसि जगतो गुरु स्मृतिनिषेधतस्ते ततो
न नाम च भजामि यद्यथ वृथा क्रुधं मा कृथाः ॥ ४॥
अनन्त यदघावलीमननसावधानात्मकै-
र्निजे दुरितमण्डले निखिलसाक्षिभिर्नेक्षिते ।
जना जगति निर्भया जय जयेति जल्पन्त्यमुं
प्रभो खलधुरन्धरं पतितपावनश्चेदव ॥ ५॥
अनेकपतिताधिपान् अवति चक्रवर्ती यथा
नृपान् अयमसज्जनः पतितपावनत्वेन नु ।
इति प्रतिदिशं खलाः पतितपावनं मां विदु-
र्न पावयसि चेत् फलं ननु भवेदिदं केवलम् ॥ ६॥
कदापि हि पदामृतं तव मयापि नास्वादितं
वृथा भवकथाभरैरपि च नाथ नीतं वयः ।
त्वया यदपि हेलया मयि न चेद्विधेया दया
तवैव महती क्षतिः पतितपावनत्वं यतः ॥ ७॥
भवान् परमधार्मिकः प्रकटितातिकारुण्यकः
स्वतन्त्रचरितो यदि स्वयमयं च किं नेदृशः ।
अलं किमपि चेत् स्वकं पतितपावनत्वादिकं
प्रदर्शयतु नान्यथा भवतु ते यशः सर्वथा ॥ ८॥
वदन्ति यदि पाविताः पतितपावनत्वव्रतं
भवन्तमधिकं न तत् परमदुर्विनीतोऽप्यहम् ।
पुनातु न पुनातु वा भुवि यथा तथैव ब्रुवे
गृहाण गुणमेव मे कुरु कृपां सदोषा न के ॥ ९॥
इति पतितपावनाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowपतितपावनाष्टकम्
READ
पतितपावनाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
