श्रीपवनजाष्टकम् PDF संस्कृत
Download PDF of Pavanajashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीपवनजाष्टकम् संस्कृत Lyrics
|| श्रीपवनजाष्टकम् ||
भवभयापहं भारतीपतिं भजकसौख्यदं भानुदीधितिम् ।
भुवनसुन्दरं भूतिदं हरिं भजत सज्जना मारुतात्मजम् ॥ १॥
अमितविक्रमं ह्यञ्जनासुतं भयविनाशनं त्वब्जलोचनम् ।
असुरघातिनं ह्यब्धिलङ्घिनं भजत सज्जना मारुतात्मजम् ॥ २॥
परभयङ्करं पाण्डुनन्दनं पतितपावनं पापहारिणम् ।
परमसुन्दरं पङ्कजाननं भजत सज्जना मारुतात्मजम् ॥ ३॥
कलिविनाशकं कौरवान्तकं कलुषसंहरं कामितप्रदम् ।
कुरुकुलोद्भवं कुम्भिणीपतिं भजत सज्जना मारुतात्मजम् ॥ ४॥
मतविवर्धनं मायिमर्दनं मणिविभञ्जनं मध्वनामकम् ।
महितसन्मतिं मानदायकं भजत सज्जना मारुतात्मजम् ॥ ५॥
द्विजकुलोद्भवं दिव्यविग्रहं दितिजहारिणं दीनरक्षकम् ।
दिनकरप्रभं दिव्यमानसं भजत सज्जना मारुतात्मजम् ॥ ६॥
कपिकुलोद्भवं केसरीसुतं भरतपङ्कजं भीमनामकम् ।
विबुधवन्दितं विप्रवंशजं भजत सज्जना मारुतात्मजम् ॥ ७॥
पठति यः पुमान् पापनाशकं पवनजाष्टकं पुण्यवर्धनम् ।
परमसौख्यदं ज्ञानमुत्तमं भुवि सुनिर्मलं याति सम्पदम् ॥ ८॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीपवनजाष्टकम्
READ
श्रीपवनजाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
