प्रदोषस्तोत्राष्टकम् PDF

Download PDF of Pradoshastotra Ashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत

|| प्रदोषस्तोत्राष्टकम् || सत्यं ब्रवीमि परलोकहितं ब्रवीमि सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि । संसारमुल्बणमसारमवाप्य जन्तोः सारोऽयमीश्वरपदाम्बुरुहस्य सेवा ॥ १ ॥ ये नार्चयन्ति गिरिशं समये प्रदोषे ये नार्चितं शिवमपि प्रणमन्ति चान्ये । एतत्कथां श्रुतिपुटैर्न पिबन्ति मूढा- -स्ते जन्मजन्मसु भवन्ति नरा दरिद्राः ॥ २ ॥ ये वै प्रदोषसमये परमेश्वरस्य कुर्वन्त्यनन्यमनसोङ्घ्रिसरोजपूजाम् । नित्यं प्रवृद्धधनधान्यकलत्रपुत्र- -सौभाग्यसम्पदधिकास्त इहैव लोके ॥ ३ ॥...

READ WITHOUT DOWNLOAD
प्रदोषस्तोत्राष्टकम्
Share This
Download this PDF