श्रीप्रमुखस्वामिमहाराजमहिमाष्टकम् PDF संस्कृत
Download PDF of Pramukhasvamimaharajamahimashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीप्रमुखस्वामिमहाराजमहिमाष्टकम् संस्कृत Lyrics
|| श्रीप्रमुखस्वामिमहाराजमहिमाष्टकम् ||
(शार्दूलविक्रीडितम्)
शोभन्ते शुभसाधुशीलसरला निर्वेदपूर्णाः क्षितौ
शास्त्रिश्रीगुरुयोगिनोश्च परमा प्राप्ता भवद्भिः कृपा ।
धृत्वा धर्मधुरां समुद्रमनसो गम्भीरनम्रा विदा
नारायणस्वरूपदासगुणिनः स्नेहेन वन्दे ह्यहो ॥ १॥
गण्यन्ते जलराशिबिन्दुनिचया आकाशतारागणा
भूमेर्धूलिकणा भवद्गुणगणाः किं केशविष्ण्वादिभिः ।
व्यासो वेदपुराणनिर्मितपरोऽशक्तोऽभवत् त्वत्स्तुतौ
वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा ॥ २॥
स्पर्शः स्पर्शमणेः करोति कनकं लोहं सुजीर्णं बली
देह तुच्छतमं विचार्य चरतो योगोऽमलस्तेऽनिशम् ।
संयुक्ते विमुखान् महाव्यसनिनो भक्तौ हरेर्नास्तिकान्
वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा ॥ ३॥
धर्मज्ञानविरागभक्तय इमे ख्याता गुणास्तावका
एकैकं विनिपातितुं कृतपणाः स्पर्धाविलग्ना नु किम् ।
मार्तण्डस्य मरीचिभिश्च सद्रशा भान्ति प्रहन्तुं तमो
वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा ॥ ४॥
वाणी तेऽमृतवर्षिणी जनहिता पापौघविध्वंसिनी
रम्यं शान्तिकरं नितान्तसुखदं त्वदद्दर्शनं पावकम् ।
नैपुण्यं सकलोपमानरहितं साध्वी क्रिया ज्ञानदा
वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा ॥ ५॥
पाण्डित्ये सति साधुता न महिता तस्यां न चेत् प्राज्ञता
वैरी तद्गुणराजिराशिरमितः साकं त्वयि द्योतते
वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा ॥ ६॥
स्वामिंस्ते प्रसृतप्रभावनिवहः सूर्यप्रभावं तथा
शैत्यं शीतकरस्य तच्छिखरिणः स्थैर्यं क्षमत्वं क्षितेः ।
निर्लेपत्वगभीरते सुरपथाम्भोध्योर्विधत्तेप्यधो
वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा ॥ ७॥
मेघं वाञ्छति चातकोऽमृतकरं पक्षी चकोरो यथा
पातिव्रत्यपरायणा निजपतिं वह्निं पतङ्गस्तथा ।
श्रीजीमूर्तिसदानिषक्त-हृदयश्चान्यान् करोति प्रभून्
वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा ॥ ८॥
त्वमेवासि नारायणस्य स्वरूपं,
त्वमेवासि मूलाक्षरस्त्वं प्रयागः ।
त्वमेवासि शास्त्री च योगी त्वमेव,
त्वमेवं चिरायुश्चिरङ्कृत् त्वमेव ॥ ९॥
(तोटकवृत्तम्)
सरलं सुहृदं पवितं मनसा,
ललितं मधुरं सुनृतं वचसा ।
निपुणं सुदृढं सुसहं क्रियया,
प्रणमामि गुरुं प्रमुखं गुणिनम् ॥ १०॥
इति श्रीप्रमुखस्वामिमहाराजमहिमाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीप्रमुखस्वामिमहाराजमहिमाष्टकम्
READ
श्रीप्रमुखस्वामिमहाराजमहिमाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
