प्रवचनपूर्वस्तुतिः PDF संस्कृत
Download PDF of Pravachanapurvastutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
प्रवचनपूर्वस्तुतिः संस्कृत Lyrics
|| प्रवचनपूर्वस्तुतिः ||
(श्री निरञ्जनपीठाधीश्वर आचार्य महामण्डलेश्वर
यतीन्द्र स्वामी श्रीकृष्णानन्द गिरिजी महाराज
के प्रवचन के पूर्व की स्तुति)
सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् ।
महेशं सच्चिदानन्दं सद्गुरुं प्रणतोऽस्म्यहम् ॥
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रकृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ १॥
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरी भगवतीं बुद्धिप्रदां शारदाम् ॥ २॥
मन्दारमालाकलितालकायै कपालमालाङ्कितशेखराय ।
दिव्याम्बरायै च दिगम्बराय नमः शिवाय च नमः शिवाय ॥ ३॥
मुखे ते ताम्बूलं नयनयुगले कज्जलकला
ललाटे काश्मीरं विलसति गले मौक्तिकलता ।
स्फुरत् काञ्चीसाटी पृथुकटितटे हाटकमयी
भजामि त्वां गौरी नगपतिकिशोरीमभिरतम् ॥ ४॥
हंसो पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः
कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा ।
चेतो वाञ्च्छति मामकं पशुपते चिन्मार्गभृग्यं विभो
गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् ॥ ५॥
अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं
यथा रथ्यापाथः शुचि भवति गङ्गौघमिलितम् ।
तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि
त्वयि प्रेम्णा सक्तं कथमिव न जायेत विमलम् ॥ ६॥
आकाशेन शिखी समस्त फणिनां नेत्रा कलापी नतान्
उद्ग्राही प्रणवोपदेशनिनदैः केकीति यो गीयते ।
श्यामां शैलसमुद्भवां धनरुचिं दृष्ट्वा नटन्तं मुदा
वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे ॥ ७॥
महान्तं विश्वासं तव चरणपङ्केरुहयुगैः
निधायान्यं नैवाश्रितमिह मया दैवतमुमे ।
तथाऽपित्वच्चेतो मयि न यदि जायेत करुणं
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ ८॥
इति श्री निरञ्जनपीठाधीश्वर आचार्य महामण्डलेश्वर यतीन्द्र
स्वामी श्रीकृष्णानन्द गिरिजी महाराजस्य प्रवचनपूर्वस्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowप्रवचनपूर्वस्तुतिः
READ
प्रवचनपूर्वस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
